________________
भर्तृहरिकृत - शतकत्रयम्
[१. २१-२२ ]
'दौर्मन्यान् नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनाद् विप्रोऽनध्ययनात् कुलं कुतनयात् शीलं खलोपासनात् । मैत्री चाप्रणयात् समृद्धिरनयात् स्नेहः प्रवासाश्रयात्
स्त्री गर्वादनवेक्षणादपि कृषिस् त्यागात् प्रमादाद् धनम् ॥ २१ ॥
इदानीं यो यस्माद् विनश्यति तदाशङ्कयाह - नृपतिर्नरेन्द्रः दौर्मत्र्याद् विनश्यति क्षयं याति । दुर्मन्त्रस्य ( छ. दुर्मत्रिणो ) भावः दौर्मध्यम्, तस्मात् दौर्म० । कुमन्त्रिणः इत्यर्थः । यतिः सङ्गात् गृहवासिनां प्रसङ्गाद् विनश्यति । सुतो लालनादित्यादि । विप्रोऽनध्ययनात् । कुलं वंशः कुतनयात् कुपुत्रात् । तथा शीलं सदाचारत्वं खलोपासनात् दुर्जनसंसर्गात् । च अन्यत् । मैत्री अप्रणयात् निःस्नेहात् । च अन्यत् । समृद्धिः अनयात् अन्यायात् । च अन्यत् । स्नेहः प्रवासाश्रयात् परदेशगमनात् । च अन्यत् । स्त्री गर्वाद् अहंकारात् । कृषिः अनवेक्षणात् असंभालनात् । धनं [त्यागाद् दानात् (ट. वितरणात् )] प्रमादाद् [ कुव्यसनसेवनाद् ] विनश्यति ॥ २१ ॥
अथ गुणद्वेषितामुद्दिश्याह
जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वैक्तर्यशक्तिः स्थिरे
तत् को नाम गुणो भवेत् सुगुणिनां यो दुर्जनैर्नाङ्कितः ॥२२॥
तत् तस्मात्कारणात् । नाम इति संबोधने । सुगुणिनां पुरुषाणां को गुणो भवेत् यो दुर्जनैर्नाङ्कितोऽस्ति । कथं कथम् ? । ह्रीमति पुरुषे लज्जाभाजिजने दुर्जनैः जाड्यं गण्यते । व्रतरुचौ तपःक्रियासंयमवाञ्छके पुंसि दम्भो गण्यते । शुचौ पुरुषे पवित्राभिलाषुके जने ( छ. कैवं ) कपटं गण्यते । पाषण्डः कथ्यते । शूरे पुंसि निर्घृणता निर्दय ( हं. क. छ. यि ) ता गण्यते । ऋजौ सरले जने विमतिता दुर्बुद्धिता गण्यते । प्रियालापिनि जने मधुरभाषिणि नरे दैन्यं इति गण्यते । तेजस्विनि पुंसि अवलिप्तता पापाधिक्यं गण्यते । एवं वक्तरि पुरुषे मुखरता वाचाटत्वं गण्यते । स्थिरे धीरे पुरुषे अशक्तिर्गण्यते । तस्मात् कारणाद् 'दुर्जनानां गुणेष्वप्यनादरः ॥ २२ ॥
१८. उत्तरार्धे - ह्रीमद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयानं मैत्रीचाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद् धनम् ।
२ हंक. ग. च. छ. सूरे । ३ ग. ट. [आ]र्जवे । ४ च. वक्तव्य । ५ ग. घ. स गुणिनां ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International