________________
[१. २३-२४]
नीतिशतकम् अथ लोभिनां पुरुषाणां चेतश्चमत्कारकारि वाक्यमाह___ जातियतु रसातलं गुणगणस्तस्याप्यधो गच्छतां शीलं शैलतटात् पतत्वभिजनः संदह्यतां वह्निना। ' शौर्ये वैरिणि वज्रमाशु निपैतत्वर्थोऽस्तु नः केवलं
येनैकेन विना गुणास्तृणलवप्रायाः सैमस्ता इमे ॥ २३ ॥
नोऽस्माकं अर्थ एवास्तु । नापरैः कैश्चिदपि गुणैः प्रयोजनम् । तत्कथम् ? । जातिः रसातलं यातु पातालं यातु । गुणगणः (हं. °णाः) गुणसमूहः (हं. हाः) तस्या अपि जातेरपि (तस्यापि तस्य रसातलस्यापि ?) अधो गच्छतां नीचैर्गच्छतु । शीलं ब्रह्मचर्यलक्षणं शैलतटात् पर्वतशृङ्गात् पततु झम्पां ददातु । अभिजनः परिकरः वह्निना दह्यतु । येन एकेन अर्थेन विना एते समस्ता अपि गुणास्तृणलवप्रायाः वर्तन्ते । यतः
बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते ।
न छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निःफलाः कलाः॥ शार्दूलविक्रीडित छन्दः ॥ २३ ॥
संप्रति दैवस्वरूपं व्याख्यातुमाह कविः-कश्चिदहितुण्डिको वनखण्डं गत्वा बिलान्तर्गतं पन्नगं ज्ञात्वा मन्त्रेणाक्षतानभिमध्य तस्य बिले क्षिप्त्वा आकर्ण्य (ट. कृष्य) च पन्नगं धृत्वा करण्डे क्षिप्तवान् । तदनु स पन्नगः क्षिप्तकरण्डकः सन् प्रोच्छलित्वोच्छलित्वा स्वकीयं शरीरं परिघृष्य परिघृष्य निर्विण्णो भूत्वा स्वस्थीभूय स्थितः । तदनु रजन्यामाखुः समाजगाम । तेन तत्करण्डकं विलोक्य स्वकीयचापल्यभावाच्चकर्ष । विवरं कृत्वा यावदन्तः प्रविशति तावत्तेन सर्पण गन्धं लब्ध्वा सावधानीभूय च स मूषकस्तेन निजिगिले । शीघ्रं समाहितो(ट. ती) भूय तेनैव मार्गेण निर्ययौ । तं दृष्ट्वा कविः कवित्वमाह
भग्नाशस्य करण्डपिण्डिततनो नेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
खस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये चाकुलम् ॥ २४ ॥ हे प्राणिनः ! स्वस्थाः तिष्ठत धीरा भवत । यतः प्राणिनां वृद्धौ च अन्यत् क्षये आकुलं सोत्सुकं दैवमेव वर्तते । यतो यस्मात् कारणात् आखुनक्तं रात्रौ स्वयं स्वयमेव भोगिनः सर्पस्य मुखे निपतितः। कं कृत्वा । करण्डके विवरं कृत्वा । किंलक्षणस्य भोगिनः? । भग्नाशय - १ ग. ट. गच्छतु । २ ट. निपतितस्त्वर्थो । ३ट. समस्तारिमे । ४ ज. ट. पीडित । ५च. वाकुलम् ; कारणम् ट.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org