________________
१२
भर्तृहरिकृत - शतकत्रयम्
[१.२५-२७ ]
भग्ना व्यर्थीभूता आशा यस्य स भग्नाशः, तस्य भग्नाशस्य । पुनः किं० भोगिनः ? । करण्डपिण्डित ( हं. ज. ट. पीडित ) तनोः करण्डेन पीडितं तनुः शरीरं यस्य । वा पिण्डितं पिण्डीकृतं तनुः शरीरं यस्य स तथाविधस्तस्य । पुनरपि किं० भोगिनः ? । क्षुधा बुभुक्षया ग्लानेन्द्रियस्य ग्लानीभूतानि ग्लानिं प्राप्तानि इन्द्रियाणि यस्य सः, तस्य । एवंविधः स पन्नगः तत्पिशितेन तस्य मूषकस्य मांसेन तृप्तो जातः संतुष्टः । असौ सत्वरं शीघ्रं तेनैव पथा स्वकीयं ईप्सितं स्थानं यातः । तस्माद्यद् दैवं करोति तद्भवति । किमुत्स (सु) कैः प्राणिभिरित्यागमः ॥ २४॥
अथ भाग्यवतामवस्था स्वरूपमाह
पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः ।
प्रायेण सांधुवृत्तानामेस्थायिन्यो विपत्तयः ॥ २५ ॥
कन्दुकः सूत्रगेन्दुकः उत्पतत्येव उन्नतिं वा भजत्येव । किं० कन्दुकः ? । कराघातैः हस्तप्रहारैः पातितोऽपि । तथान्यायेन प्रायेण स्वभावेन साधुवृत्तानां विपत्तयः कष्टानि अस्थायिन्यो भवन्ति । न चिरं तिष्ठन्तीत्यर्थः ॥ २५ ॥
अथ भाग्यवतामवस्थास्वरूपं पुनराह -
प्रायः कन्दुकपातेनै पत्यार्यः पतन्नपि ।
तथा त्वनार्यः पतति मृत्पिण्डर्पेतनं यथा ॥ २६ ॥
आर्यः पुण्यवान् प्रायः स्वभावेन कन्दुकपातेन गेन्दुकपातवत् उत्पतति उन्नतिं भजते । किं० आर्यः ? । पतन्नपि पतनं प्राप्नुवन्नपि । तथा पुनः अनार्यो नीचः पतति । यथा शब्द इवार्थे वर्तते । क इव ? | मृत्पिण्डपतनमिव । यथा मृत्पिण्डः पतनं पतति परं उन्नतिं न प्राप्नोति ॥२६॥
अथ पुण्यफलमाह
Jain Education International
प्रीणाति यः सुचरितैः पितरं स पुत्रो
यद् भर्तुरेव हितमिच्छति तत् कलत्रम् ।
तन् मित्रमापदि सुखे च सैमक्रियं यद्
एतत् त्रयं जगति पुण्यकृतो लभन्ते ॥ २७ ॥
1
स एव पुत्रः यः पितरं जनकं सुचरितैः सदाचारैः प्रीणाति । यद् भर्तुरेव पत्युरेव हितमिच्छति परिणामसुन्दरं वाञ्छति तदेव कलत्रं सैव भार्या । मित्रं तदेव यदापदि कष्टे, 'च अन्यत्, [ सुखे ] सुखोदये समक्रियं सदृशस्नेहम् । वाऽपरम् । केवलम् एतत् त्रयं पूर्वोक्तं जगति पृथिव्यां पुण्यवन्तो ( ट. पुण्यकृतो ) लभन्ते, नापरे ॥ २७ ॥
१ ग. हि सुवृ । २. च. आस्थायिन्यो । ३ ग. घ. छ. पातेनोत्पत । ४ घ. गुडिका । ५. क. च. समं क्रिय ।
For Private & Personal Use Only
www.jainelibrary.org