________________
[१.२८-३१]
नीतिशतकम् अथ महतां चेष्टितमाहसंपत्सु महतां चित्तं भवेदुत्पलकोमलम् ।
आपत्सु च महाशैलशिलासंघातकर्कशम् ॥ २८ ॥
महतां चित्तं महानुभावानां मनः संपत्सु उत्पलकोमलं भवेत् कमलवत् सुकुमारं (ट. समाकुलं) स्यात् । च अन्यत् । आपत्सु कष्टेषु महाशैलशिलासंघातकर्कशं भवेत् । महांश्चासौ शैलो महाशैलः महागिरिः, तस्य शिलायाः संघातः महाशैलसंघातः, तद्वत् कर्कशं कठोरं चित्तं भवति ॥ २८॥
रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् ।
असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥ २९ ॥
कमलानां पङ्कजानां रक्तत्वम् । सत्पुरुषाणां महतां परोपकारित्वम् । च अन्यत् । असतां दुर्जनानां निर्दयत्वं निःकृपत्वम् । त्रिषु स्थानकेषु पूर्वोक्तमेतत् त्रितयं स्वभावसिद्धं भवति सहजसिद्धं स्यात् ॥ २९ ॥
दुर्जनः परिहर्तव्यो विद्यया भूषितोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ ३० ॥ सुगमम् ॥ ३०॥ अथ मैत्रीसौन्दर्यस्वभावमाहक्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस् तेंदभवद् दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीशी ॥ ३१ ॥ जगति पृथिव्यां पुनमैत्री सुहृत्ता (ट. सुहृदो भावः) ईदृशी भवति । यथा क्षीरनीरयोः । कीदृशी सा मैत्री ? । क्षीरेण दुग्धेन आत्मगतोदकाय स्वसमीपसंयुक्ताय वारिणे पुरा पूर्वमपि तेऽखिलाः समस्ता अपि स्वकीयाः प्रोज्ज्वलित (हं. क. प्रोज्ज्वलिम; ट. गरिम) गुणा दत्ताः । अथ पश्चात् हि निश्चितम् । तेन पयसा तेन वारिणा क्षीरे तापमवेक्ष्य स्वमित्रस्य दुग्धस्य कष्टं विलोक्य आत्मा कृशानौ वैश्वानरे हुतः आहुतीकृतः । तदनु च, पयसः पानीयस्य तादृशं स्वरूपं अवलोक्य प्रेमस्वरूपमपि प्रेक्ष्य तत् दुग्धं उन्मनः सन् पावकं गन्तुं अभवत् । वैश्वानरे पतिसुमभिललाष । किं कृत्वा ? | मित्रापदं तु दृष्ट्वा । तदुद्धान्तं क्षीरं नीरेण
१ घ. भवत्युत्पल ।२ घ.आपत्स्वपि शिलाशैल। ३ ज. तापमवेत्य, घ.क्षीरं तप्तमवेश्य। ४ग. घ. उन्मनाः। ५घ. समभवद् । ६ नु. तु. वर्णयोःप्रायोन मेदः। ७ग. ताहशी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org