SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिकृत - शतकत्रयम् [ १.३२-३३ ] ( हं. नारीजनः । क. च. छ. नारीजनेन ) सहसा मेलितेन जलेन वारिणा शाम्यति उपशा (ट. •श) मं गच्छति तदा युक्तम् । यतस्तयोः क्षीरनीरयोः प्रीतिः तमामधिकतरा ( ट . क्षीरनीरयोः प्रीतिरधिकतरा ) इत्यर्थः ॥ ३९॥ सांप्रतं देवतातिशयस्वरूपमाह या साधूंश्च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् । तामाराधय चक्रिकां भगवतीं भोक्तुं फलं वाञ्छितं हे साधो ! त्वेमतो गुणेषु विफैलेष्वास्थां वृथा मा कृथाः ॥३२॥ हे साधो ! त्वं तां चत्रिकां चक्रेश्वरीं देवीम् आराधय । या साधून मित्रान् खलान् करोति । च अन्यत् । खलान् दुर्जनान् साधून् कुरुते । च अन्यत् भगवती विदुषः पण्डितान् मूर्खान् करोति । मूर्खान् जडान् विदुषः करोति । च अन्यत् । हितान् उपकारिणः द्वेषिणः करोति । द्वेषिणो हितान् करोति । च अन्यत् । या भगवती प्रत्यक्षं पञ्चेन्द्रियगोचरं परोक्षं अदृश्यं च प्रत्यक्षं कुरुते । या भगवती अमृतं तत्क्षणात हालाहलं कुरुते । च अन्यत् हालाहलं तत्क्षणाद् अमृतं कुरुते । अतः कारणात् अखिलेषु गुणेषु वृथा आस्था मा कृथाः मा कुर्याः । किंलक्षणेषु गुणेषु । तां भगवतीं विना विफलेषु । शार्दूलविक्रीडितम् ॥ ३२ ॥ अथ तुच्छजनस्य स्वरूपमाह कविः - कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते गणयति न हि क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ३३ ॥ हि निश्चितम् । क्षुद्रो जन्तुः तुच्छप्राणी परिग्रहफल्गुतां मिथ्यामोहत्वं न गणयति । यतः श्वा भषणः सुरपतिमपि सुरेन्द्रमपि पार्श्वस्थं समीपस्थं विलोक्य न शङ्कते न शङ्कां कुरुते । श्वा किं कुर्वन् ? । नरास्थि मानुषास्थिशकलं निरुपमरसप्रीत्या खादन् निरुपमश्चास्यै रसः निरुपमरसस्तस्य प्रीतिर्निरुपमरसप्रीतिः, तया । किं० नरास्थि ? । निरामिषं निर्गतं आमिषं यस्मात्तन्निरामिषं मांसरहितमित्यर्थः । पुनः किंलक्षणं नरास्थि ? । कृमिकुलचितं कृमीणां कुलानि कृमिकुलानि, कृमिकुलैश्चितं कृमिकुलचितं, तत् । पुनरपि किं० नरास्थि ? । लालाक्लिन्नं लालाव्याप्तम् । पुनरपि किं० नरास्थि ? । विगन्धि दुर्गन्धि | पुनरपि किं० नरास्थि ? । जुगुप्सितं निन्दितम् । एवंविधं नरास्थि भक्षन् (ट. भक्षयन् ) इन्द्रमपि किमपि न मन्यते । तुच्छजीवस्य स्वभावोऽयम् ॥३३॥ • १ घ. व्यसनैर् । २ घ. विपुले, छ. विमले । ३ रसं घ. । ४ शंसते । ५ घ. न हि गणयति । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy