________________
[१. ३४-३६]
नीतिशतकम् अथ सभाग्यनिर्भाग्ययोः प्रकृति प्रकटयन्नाहखल्पस्नायुवशादशेषमलिनं निर्मासमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न च तत् तस्य क्षुधाशान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥३४॥ श्वा कुर्कुरः अस्थिकं लब्ध्वा परितोषं संतोषं एति [प्राप्नोति] । कुत्सितं अस्थि आस्थिकं “अज्ञाते कुत्सिते च एव ।” कप्रत्ययः । किं० अस्थिकम् ? । निर्मासमपि भक्ष्यस्वादविवर्जितमित्यर्थः । पुनः किं० अस्थिकम् ? । अशेषमलिनं धूलीकचवरादिव्याप्तम् । कस्मात् ? । खल्पस्नायुवशाद् अल्पनशाजालहेतुत्वात् । च अन्यत् । अस्थिकं तस्य शुनः क्षुधाशान्तये न बुभुक्षां निर्गमयितुं अशक्तम् । सिंहः द्विपं हन्ति गजेन्द्रं विदारयति । किं कृत्वा ? । अङ्कागतमपि उत्सङ्गप्राप्तमपि जम्बुकं शृगालं त्यक्त्वा । तत्र किं कारणम् ? । सर्वो जनः सत्त्वानुरूपं फलं वाञ्छति खभाग्यसदृशं फलोदयमभिलषति । किं० सिंहः ? । कृच्छ्गतोऽपि कष्टदशां प्राप्तोऽपि ॥ ३४ ॥
अथ मित्रस्य लक्षणमाह कविःपापान निवारयति योजयते हिताय
गुह्यं निगृहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ ३५॥ - सन्तः पण्डिताः सन्मित्रलक्षणमिदं वदन्ति ईदृशं लक्षणं वदन्ति । कीदृशम् ? । सन्मित्रं (है. क. छ. 'त्रः) पापानिवारयति पापानि कर्तुं न ददातीत्यर्थः । हिताय योजयते परिणामसुन्दरकर्मणि प्रेरयति । चान्यस्मात् गुह्यं मर्म निगृहति (ट. निगृहति) “गुहू संवरणे ।" आच्छादयति।च अन्यत् । मित्रो गुणान् प्रकटीकरोति जने महिमानमाविःकरोति। च अन्यत् । मित्रः आपद्गतं संपन्नकष्टं न जहाति न परित्यजति । काले समये समागते (हं. च. ट. समायाते) सति ददाति वाञ्छितं वितनोति (छ. वितरति)। अत एव इदं सन्मित्रलक्षणम् ॥ ३५॥
मृगमीनसज्जनानां तृणजलसंतोष विहितवृत्तीनाम् । लुब्धकधीवरपिशुना निःकारणवैरिणो जगति ॥ ३६ ॥ सुगमम् ॥ ३६ ॥ १ ज..निष्कारण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org