________________
भर्तृहरिकृत - शतकत्रयम्
अथ संसर्गफलमाह कविः
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वाती सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥ ३७ ॥
प्रायेण स्वभावेन प्राणिनां अधममध्यमोत्तमगुणः (ट. गुणाः ) संवासतो संसर्गतो जायते भवति । अधमश्च मध्यमश्चोत्तमश्च अधममध्यमोत्तमाः । अधममध्यमोत्तमश्चासौ गुणः अधममध्यमोत्तमगुणः । कथमिति ? । पयसः पानीयस्य नामापि न ज्ञायते मूलतोऽपि क्षयं यातीत्यर्थः । किं० पयसः ? । संतप्तायसि प्रज्वलिते लोहे संस्थितस्य मुक्तस्य । तदेव पयो नलिनीपत्रस्थितं मुक्ताकार (हं. रि ) तया राजते । मुक्ताया आकारः मुक्ताकारः, मुक्ताकारस्य भावो मुक्ताकारता, तया । तत् पयः । स्वातौ स्वातिनक्षत्रे मेघसमायोगे (ट. गमे ) मौक्तिकं जायते मुक्तामणिर्भवति । किं० मौक्तिकम् । सागरशुक्तिसंपुटगतम् । सागरस्य शुक्तिः सागरशुक्तिः, सागरशुक्तेः संपुटं सागरशुक्तिसंपुटम्, तत्र गतं प्राप्तं सागरशुक्तिसंपुटगतम् । अत एव प्राणिनां उत्तमसंसर्ग एव विलोक्यते ॥ ३७ ॥
अथ कर्मणः स्वरूपमाह कविः -
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ३८ ॥
[ १.३७-१९ ]
तस्मै कर्मणे नमः नमस्कारोऽस्तु । येन कर्मणा ब्रह्मा (ट. प्रजापतिः ) ब्रह्माण्डभाण्डोदरे त्रिभुवनजठरपिठरे कुलालवन्नियमितः कुम्भकारवन्नियुक्तः । अथ च येन कर्मणा विष्णुस्त्रिलोकीपतिः दशावतारगहने क्षिप्तः दशभवग्रहणे [च] आमितः । किं० दशावतारगहने ! | निरन्तरं दुःखसंकुले । अपि च येन कर्मणा रुद्रो महेशः कपालपाणिपुटके कर्परहस्तपुढे भिक्षाटनं भिक्षाभ्रमणं कारितः । अन्यच्च सूर्यः सहस्रकिरणो यस्मात्कर्मणो नित्यमेव गगने नभोमण्डले भ्राम्यति प्रत्यहं परिभ्रमणं कुरुते । ततोऽस्य कर्मणो नमस्कारः ॥ ३८ ॥
कविर्मनस्विनः स्थितिमाह
कुसुमस्तबकस्येव द्वयी वृत्तिर्मनखिनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ ३९॥
१ घ. गुणाः । २ क. भ्रामति । ३ घ. लोकानां स्थीयते ।
Jain Education International
For Private & Personal Use Only
४ छ. एव च ।
www.jainelibrary.org