________________
[१.४०-४१]
नीतिशतकम् - मनखिनः पुरुषस्य मानिनो नरस्य द्वयी वृत्तिर्भवति । द्वयी का ? । वा अथवा । सर्वलोकस्य निखिलजगतो मूर्ध्नि भवति मस्तकसमारूढस्तिष्ठति । महत्त्वात् । वा अथवा । वने एव शीर्यते उग्रतपस्त्वात् कृशो भवति । मनस्विनः कस्येव ? । कुसुमस्तबकस्येव पुष्पगुच्छस्येव (हं. भलुछस्येव)। यथा कुसुमस्तबकस्य द्वयी वृत्तिर्भवति । वा अथवा सर्वलोकस्य मूर्ध्नि मस्तके समारूढः सन् तिष्ठति । वा अथवा वने एव शीर्यते विलयं यातीत्यर्थः ॥ ३९ ॥
अथ सेवादुःखमाह कविःमौनान्मूकः प्रवचनपटुर्वातलो जल्पको वा
धृष्टः पार्थे भवति च तथा दूरतश्च प्रमादी । क्षान्त्या भीर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४० ॥ सेवाधर्मः परमगहनो वर्तते । महदुःखात् । कथम् ? । सेवको मौनात् स्वल्पभाषकात् (छ. भाषणात्) मूक इव कथ्यते । गुणादपि दोषाविर्भावः । सेवकः प्रवचनपटुः शास्त्रवक्ता वातलो वा जल्पकः कथ्यते । तत्रापि गुणान्नैर्गुण्यं जातम् । यदि मूकत्वं दुर्जनैर्दूषितं तदा वक्तृत्वमपि दूषितम् । च अन्यत् । पार्वे भवति समीपवर्ती सेवकः स्यात् , तदा धृष्टः कथ्यते । यतोऽयं गृहतोड्डकवत् न याति दुराशयः क्वापि । तत्रापि गुणाद् दोषता जाता । चेद् दूरतस्तिष्ठति, संकोचशङ्कया तदाऽप्यप्रगल्भः कथ्यते । वा प्रमादी कथ्यते । तत्रापि गुणैर्गलितम् । सेवकः क्षान्त्या क्षमया भीरुः कथ्यते यतोऽयं रको वर्तते । कियानयमस्माभिः संमुखं (हं. सन्मुखं) जस्पितुं कथं शक्तः समर्थः ? । यदि चेन्न सहते साभिमानत्वात् तदा प्रायसः (शः) स्वभावान् नामिजातः अहंकारीति कथ्यते। एवं कृत्वा सेवकस्य सेवाधर्मः परमगहनः कथमपि कर्तुं न शाशक्यते । अन्यदपि गहनं केनापि सेवयितुमशक्यम् । तथायमपि च सेवागहनः । किं० सेवाधर्मः परमगहनः ? । योगिनामप्यगम्यः । अन्यो गहनो योगिभिः साध्यते । लघुसाध्यो (हं. लब्धं साध्यो न) भवति । परमयं सेवाधर्मः परमगहनो योगिभिरपि ज्ञातुं न पार्यते । एतावता सेवा दुःखमयी रहस्यमिति ॥ ४०॥ ___ अथ सत्पुरुषचरित्रस्वरूपमाह कविःनम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्योपयन्तः
खार्थान् संपादयन्तो विततपृथुतरारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान् दुर्मुखान् दूषयन्तः
सन्तः साश्चर्यव(च)र्या जगति बहुमताः कस्य नाभ्यर्चनीयाः॥४॥ १ घ. दूरतश्चाप्र । २ हं. क्षाप। ३ घ. पृथुफलारम्भ। ४ हं. क. च. वापेक्ष्य; ज 'बोपेक्ष। ५ घ. श्वाश्चर्यचर्या हं. च. साश्चर्यवर्या ।
३ शतकत्र Jain Education International
For Private & Personal Use Only
www.jainelibrary.org