________________
भर्तृहरिकृत शतकत्रयम्
[१.४२] सन्तः सत्पुरुषाः। जगति पृथिव्यां कस्य नाभ्यर्चनीयाः ? । अपि तु सर्वस्यापि । किं. सन्तः । बहुमताः बहुभिर्मानिताः । पुनः किं० सन्तः ? । साश्चर्यवर्याः सह आश्चर्येण वयं वर्या सौन्दर्य येषां ते साश्चर्यवर्याः। वा अथवा सह आश्चर्येण चर्या आचरणं येषां ते। तथा सन्तः किं कुर्वन्तः ? । नम्रत्वेन उनमन्तः विनयेन नमनशीलत्वेन उन्नतिं भजन्तः । एतावता नतिः उत्तमानामेव भवति । पुनरपि किं कुर्वन्तः । स्वान् गुणान् ख्यापयन्तः कथयन्तः। कैः । परगुणकथनैः परेषां गुणाः परगुणाः, परगुणानां कथनं परगुणकथनं, तैः । ननु परगुणान् त एव बदन्ति ये उत्तमाः स्युः । सन्तः पुनरपि किं कुर्वन्तः? । परार्थे विततपृथुतरारम्भयत्नाः सन्तः । खार्थान् संपादयन्तः साधयन्तः । वितता विस्तीर्णाः पृथुतरा महान्तः आरम्भयत्नाः येषां ते विततपृथुतरारम्भयत्नाः। एतावता महान्ति परकीयानि कार्याणि कृत्वा स्वकीयानि कार्याणि कुर्वन्ति साधयन्ति । सन्तः पुनरपि किं कुर्वन्तः ? । दुर्मुखान् दूषयन्तः । वा दुःखयन्तः तोदनां (हं. नो दानं ) ददतः । कया? । क्षान्त्यैव क्षमयैव । किं० दुर्मुखान् ? । आक्षेपलक्षाक्षरमुखरमुखान् । आक्षेपेण रूक्षाणि आक्षेपरूक्षाणि यानि अक्षराणि तानि आक्षेपरूक्षाक्षराणि, तैः मुखराणि वाचालानि मुखानि येषां ते क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखाः (हं. च. मुखाः) तान् । एवंविधाः सन्तो भवन्ति ॥ ४१॥
अथ निःशेषनिर्णयमाह कविः
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः ___ सत्यं चेत् तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं निजैः खमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४२ ॥ रे चेतः!। चेत् यदि लोभः तदाऽगुणेन किम् ? । लोभेन गुणा गलिता एव । तदा नैर्गुण्यमेव जातम् । यतो 'लोभमूलानि पापानि' । यत्र पापं (क. प्रान्ते. छ. लोभो) तत्र अगुणाः स्वयमेव संभवन्तीत्यर्थः । यदि चेत् पिशुनता तदा पातकैः किम् ? । यतः पातकानां मूलं सैव । चेद् यदि सत्यं तदा तपसा किम् ? । तपसां मूलं सत्यमेव । यदि चेत् शुचि मनः तदा तीर्थेन किम् । तीर्थ निर्मलं मन एव । यतस्तत्त्वं किं मनः 'जउ मन चंगा तउ कठउती गंगा' (टें. इति लोकोक्तिः)। यदि चेत् सौजन्यं तदा निजैः किम् ? । तस्य निखिलः संसारी निज एव । सौजन्यखभावात् । यदि चेत् खमहिमा तर्हि मण्डनैः किम् ? । यतः सत्पुरुषाणां महिमैव मण्डनम् । महिमानमन्तरेण मण्डनैः किमित्यर्थः । यदि चेत् सद्विद्या तर्हि धनैः किम् ? । महतो सद्विद्या एव धनं गुरूणां प्रसादतः। चेद् यदि अपयशः तर्हि मृत्युना किम् ? । प्राणिनां मृत्युस्तदेव यदपयशः । यतः स जीवन्नपि मृतः यस्य लोकेऽपश्लोकः ॥ ४२ ॥ ___ १ हं. क. तपसापि. श्लोकस्योत्तरार्ध, हं. कोशे न दृश्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org