________________
[१. ४३-४४]
नीतिशतकम् सत्त्ववतः पुरुषस्य सत्त्वमुद्दिश्यान्योक्तिमाहअम्भोजिनीवननिवासविलासमेव
हंसस्य हेन्त नितरां कुपितो विधाता । न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां __वैदेग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ ४३ ॥
हन्त इति खेदे । विधाता विश्वेश्वरो हंसस्य नितरां अतिशयेन कुपितः सन् अम्भोजिनीवननिवासविलासमेव हतु समर्थः । अम्भोजिन्या वनं अम्भोजिनीवनम् , अम्भोजिनीवने निवासस्य विलासः अम्भोजिनीवननिवासविलासः, तं अम्भो० । न त्वसौ विधाता अस्य राजहंसस्य वैदग्ध्यकीर्ति अपहर्तुं समर्थः । विदग्धस्य भावो वैदग्ध्यम् , वैदग्ध्यस्य कीर्तिः वैदग्ध्यकीर्तिः, ताम् । किं० वैदध्यकीर्तिम् । दुग्धजलभेदविधौं प्रसिद्धाम् । दुग्धं च जलं च दुग्धजले, दुग्धजलयोर्भेदः दुग्धजलभेदः, दुग्धजलभेदस्य विधिः दुग्धजलभेदविधिः, तस्मिन् दुग्धअलमेदविधौ प्रसिद्धाम् ॥ ४३ ॥
अथाभाग्यवतः पुरुषस्य स्वरूपमाह कविः
खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके __ वाञ्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ ४४ ॥ प्रायः खभावेन यत्र भाग्यरहितो भाग्यहीनो गच्छति तत्रैव आपदो यान्ति । आपदस्तु अभाग्यवन्तमन्तरेण आधाराधेयन्यायेन [न] तिष्ठन्ति । एतावता यत्राभाग्यवान् पुमान् तत्रैवापदोऽनुगामिन्यः । कथम् । खल्वाटो मस्तककचवर्जितः बिल्वस्य मूलं गतः। किं कुर्वन् ? । अनातपं देश प्रदेशं वाञ्छन् । किं० खल्वाटः ?। दिवसेश्वरस्य सूर्यस्य किरणैः 'मस्तके संतापितः खलु । खल्वाटस्य सूर्यकिरणास्तपर्तुपूर्णाः (हं. पूर्ती; च. ट. पूर्तो) मस्तके समुद्वेजयन्ति।तत्रापि बिल्वमूलेऽपि विधिवशात् प्रबलवातेन वाता (?) एकेन अस्स बिल्वस्य महाफलेन पतता सशब्दं शिरो भग्नम् । तस्माद् भाग्यरहितस्य पुंसः सर्वत्रापि भाग्यं फलति ॥ ४४ ॥
अथ प्राणिनां भाग्यस्वरूपमाह कविः
नैवाकृतिः फलति नैव कुलं न शीलं । विद्यापि नैव न च यत्नकृतापि सेवा ।
१ ग. घ.ज. हन्ति । २ क.च.छः वैदग्ध । ३ छ. घ. मूले । ४ घ. तत्रापदां भाजनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org