________________
भर्तृहरिकृत-शतकत्रयम्
[१.४५-४७] भाग्यानि पूर्वतपसा किल संचितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ४५ ॥ पुरुषस्य भाग्यानि काले कर्मफलोदये फलन्ति प्रादुर्भवन्ति । किंलक्षणानि भाग्यानि । किल इत्यागमे । पूर्वतपसा संचितानि । आकृति व फलति । कुलं नैव फलति । शीलं नैव फलति । विद्या नैव फलति । च अन्यत् । यत्नकृता सेवापि न फलति । अतः कारणात् तपःसंचयमेव कुर्वन्तु । किमपरैरुपायैर्बहुभिः ? ॥ ४५ ॥
अथ सारासारसमाहारः[२] प्राह कविःऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तैपसां क्षमा प्रभवितुर्धर्मस्य निर्व्याजता __ सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ ४६ ॥
ऐश्वर्यस्य महत्ताया विभूषणमलंकरणं सुजनता सौजन्यं वर्तते । शौर्यस्य पराक्रमस्य वाक्संयमः स्वल्पभाषणं विभूषणम् । ज्ञानस्य विभूषणं उपशमः । शमस्य उपशमस्य विनयः विभूषणम् । पात्रे व्ययं (यः) वित्तस्य विभूषणम् । तपसो विभूषणम् अक्रोधः। प्रभवितुः महारथिनः क्षमा विभूषणम् । निर्व्याजता निःकपटता धर्मस्य विभूषणम् । इदं शीलं परं प्रकृष्टं भूषणं वर्तते । किं० शीलम् ? । सर्वेषामपि पूर्वोक्तानां प्रकाराणां सर्वकारणं परमालंकरणम् (च. परमानन्दकरणं; ट. परमं कारणम् ) ॥ ४६ ॥
अथोत्तममध्यमजघन्यपुरुषाणां स्वरूपमाहएते सत्पुरुषाः परार्थघटकाः खार्थ परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं खार्थाय निम्नन्ति ये - ये तु नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ४७ ॥
ये स्वार्थ परित्यज्य स्वकीयं कार्य मुक्त्वा परार्थघटकाः परकार्ययोजकाः [एते सत्पुरुषाः] । तु पुनः एते सामान्याः ये परार्थ परकार्ये उद्यमभृतः उत्साहधराः । केन ? । खार्थाविरोधेन । कोऽर्थः ? । स्वकीयोऽर्थः स्वार्थः, तस्याविरोधः अपरिहारः स्वार्थाविरोधः । तेन खार्थाभ नेत्यर्थः । अमी ते प्रोच्यमानाः मानुषराक्षसाः नरयातुधानाः। के ?। ये परहितं परकार्य
१. खलु. २ ग. यथेह । ३ घ. ज. तपसः। ४ छ. ज. ते । ५ ध.ये स्वार्थतो हन्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org