________________
[१.४८-४९]
नीतिशतकम् (क. छ. ये ) स्वार्थाय निघ्नन्ति विनाशयन्ति । स्वार्थमन्तरेण परेषां कार्य विनाशयन्ति । कविः ससंशयं प्राह-वयं ते के न जानीमहे । तु पुनः ये अधमाधमाः निरर्थकं स्वार्थविहीनं परहितं परकार्य नन्ति विनाशयन्ति ।। ४७ ॥
अधुना संगतेः फलमाह कविः
जाड्यं धियो हरति सिञ्चति वाचि सत्यं ___ मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति
सत्संगतिः कथय किं न करोति पुंसाम् ॥ ४८ ॥ हे विद्वन् ! । कथय निवेदय । पुंसां पुरुषाणां सत्संगतिरुत्तमसंसर्गः किं न करोति। अपि तु सर्वमपि । काको(कू)क्तिरियम् । किं किं कुरुते ? । धियो बुद्धेर्जाड्यं मौढ्यं हरति स्फेटयति । वाचि वाण्यां सत्यं सिञ्चति क्षरति । पुनः सत्संगतिः किं करोति ? । मानोनतिं महत्त्वप्रौढिं दिशति ददाति । पुनः सत्संगतिः किं करोति ? । पापमपाकरोति निराकुरुते । पुनरपि सत्संगतिः चेतः प्रसादयति नैर्मल्यं करोति । पुनरपि सत्संगतिः दिक्षु दशस्वपि ककुप्सु कीर्ति तनोति विस्तारयति । अतः कारणात् सत्संगतिः मनोभीप्सितं ददातीत्यर्थः] ॥ ४८॥
अथोत्तमानां गुणवर्णनं प्राह कविःवाञ्छा सज्जनसंगमे परगुणे प्रीतिगुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम् । भक्तिश्चार्हति शक्तिरात्मदमने संसर्गमुक्तिः खले
ऐते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ ४९ ॥ तेभ्यो नरेभ्यो नमो नमस्कारं करोमि । येषु पुरुषेषु अतिनिर्मलगुणा वसन्ति । एते के के ? । येषामुत्तमपुरुषाणां सजनसंगमे उत्तमपुरुषसंसर्गे वाञ्छा । अन्यच्च । येषां परगुणे प्रीतिः । परेषां गुणः परगुणः तस्मिन् । येषां च पुरुषाणां गुरौ पूज्ये नम्रता नमनशीलत्वम् । येषां सत्पुरुषाणां व्यसनं विद्यायां न तु द्यूतादि (छ. 'दौ)। येषामुत्तमानां रतिः संतोषः खयोषिति । न तु परनारीप्रभृति(च. छ. 'त)पापेषु । अन्यच्च येषां सत्पुरुषाणां भयं लोकापवादाद्, न तु वैरिप्रमुखपदार्थेभ्यः। च अन्यत् । येषां सत्पुंसां भक्तिरर्हति श्रीपरमपुरुषे न तु यक्षक्षेत्राधिपतिषु । च अन्यत् । येषां शक्तिरात्मदमने न तु खरतुरगादिषु । येषां विदुषां संसर्गमुक्तिः खले दुर्जने पुरुषे न तु देवगुरुषु । ये एतैर्गुणैरलंकृतशरीरा गुणवन्तो धीरास्तेभ्यो नमो (च. ट. नरेभ्यो) नमः ॥ ४९ ॥
१ ग. घ. शूलिनि। २ ज. येष्वेते निवसन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org