________________
भर्तृहरिकृत-शतकत्रयम्
[१.५०-५१] अथ नारीणां दोषानाह कविः
अग्राह्यं हृदयं यथैव वदनं यदर्पणान्तर्गतं ___ भावः पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयचपलं विद्वद्भिराशंसितं
नारी नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता ॥ ५० ॥ नाम इति संबोधने । नारी दोषैः समं वर्धिता वर्तते । नारी केव ? । लतेव वल्लीवद् । यथा लता विषाङ्करैः विषप्ररोहैः समं वर्धिता भवति । कथम् ? । यस्या नार्या हृदयं अग्राह्यं वर्तते ग्रहीतुं अशक्यम् । यथा शब्दो इवार्थे वर्तते । नारीहृदयं क(कि)मिव ? । दर्पणान्तर्गत आदर्शप्रतिबिम्बितं वदनमिव । एवं निश्चयेन । यथा दर्पणान्तर्गतं वदनमग्राह्य ग्रहीतुमशक्यं तथा तस्या हृदयमपि । तु पुनः । स्त्रीणां नारीणां भावश्चित्ताभिप्रायो न विज्ञायते नावगम्यते । किं० भावः ? । पर्वतसूक्ष्ममार्गविषमः । पर्वतस्य सूक्ष्ममार्गः पर्वतसूक्ष्ममार्गः, अलभ्यमार्ग इत्यर्थः । तद्वद्विषमः पर्वतसूक्ष्ममार्गविषमः । यस्याः नायिकायाः चित्तं विद्वद्भिः पण्डितैः पुष्करपत्रतोयचपलं आशंसितं कथितम् । अतः कारणात् नारी दोषवसतिः (छ. तिगृहं) प्रोच्यते ॥ ५० ॥
अथात्मसंबोधनमाह कविः
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः . सत्यं ब्रूह्यनुयाहि साधु पदवीं सेवस्व विद्वज्जनान् । मान्यान् मानय विद्विषोऽप्यनुनय प्रच्छादय खान् गुणान्
कीर्तिं पालय दुःखिते कुरु दयामेतत् सतां चेष्टितम् ॥५१॥ रे चेतः! । तृष्णां छिन्धि निराशय । क्षमां भज । मदं जहि त्यज । रतिं पापे मा कृथाः । सत्यं ब्रूहि । साधुपदवीं अनुयाहि अनुगमनं कुरु । विद्वज्जनान् सेवख । मान्यान् पूज्यान् मानय पूजय । विद्विषोऽपि अनुनय प्रसादय । स्वान् स्वकीयान् गुणान् प्रच्छादय आवृणु । कीर्तिं पालय । दुःखितेषु जनेषु दयां कुरु । सतां साधूनां एतच्चेष्टितम् । अस्मिन् मार्गे साधवो गच्छन्तीत्यागमः ॥ ५१ ॥
अथाधैर्यशिष्या(क्षा)माह कविः गुण दगुणवद्वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन । १. घ. तथैव । २ घ. णान्तः स्थितम् । ३ घ. तरलं। ४ क. कार्यमदौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org