________________
नीतिशतकम्
अतिरभसकृतानां कर्मणामाविपत्तेर
भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ५२ ॥
पण्डितेन मनुष्येण यत्नतः कार्याणां परिणतिरवधार्या परिणामश्चिन्तनीयः । पण्डितेन किं कुर्वता ? । कार्यजातं कर्तव्यसमूहं गुणवद् गुणसहितं अगुणवद् गुणरहितं कुर्वता । इदं परिणामसुन्दरं इदमपरिणामसुन्दरं इति विचारं कुर्वता । कथमिति ? । अतिरभसकृतानां कर्मणां अत्युत्सुकतया समाचरितकार्याणां हृदयदाही मानसदाहात्मकः शल्यतुल्यो विपाको भवति । तस्य कर्मणो हृदयदाहं दुःखं भवति ॥ ५२ ॥
एको देवः केशवो वा जिंनो वा एका भार्या सुन्दरी वा दरी वा । एकं मित्रं भूपतिर्वा यतिर्वा एको वासः पत्तने वा वने वा ॥ ५३ ॥ अधुनोपदेशसूचकमर्थमाह कविः -
सुगमम् ॥
स्थाल्यां वैडूर्यमय्यां पचति तिलखलं चन्दनैरिन्धनौधैः सौवर्णैर्लाङ्गलायैर्विलिखति वसुधामर्कतूलस्य हेतोः । छित्त्वा कर्पूरखैण्डान् वृतिमिह कुरुते कोद्रवाणां समन्तात्
प्राप्येमां कर्मभूमिं विचलति मनुजो यस्तैपो मन्दभाग्यः ॥५४
[ १. ५२-५५]
यो मन्दभाग्यो मनुजस्तपो विचलति ( ट . न चरति ) । किं कृत्वा ? । इमां कर्मभूमिं प्राप्य । स किं कुरुते ? । वैडूर्यमय्यां मरकतमणिसमुद्भवायां स्थाल्यां हण्डिकायां तिलखलं पचति । ननु रे मूढ ! वैडूर्यमय्यां स्थाल्यां किं तिलखलः पच्यते ? । एतावता स एव मूढो यस्ता - दृग्विधायां स्थाल्यां तादृक्कर्म करोति । कैः ? । चान्दनैरिन्धनौधैः चन्दनसमुद्भवकाष्ठसमूहैः । सौवर्णैर्लाङ्गलायैः अर्कतूलस्य हेतोः वसुधां धरणीं (क. छ. भूमिं ) विल( छ. खिति । ननु मूर्ख ! सौवर्णैर्लाङ्गलायैः अर्कतूलस्य हेतोः त्वामन्तरेण कश्चिद् वसुधां विल ( छ. लि)खति । समूढः कर्पूरखण्डान् छिवा समन्तात् चतुर्दिशं इह अस्मिन् जीवलोके कोद्रवाणां वृत्तिं ( वृतिं ) रक्षणवृतिभित्तिं कुरुते । इह पुण्यमयं क्षेत्रं प्राप्य प्रत्यहं पापं कुरुते ॥ ५४ ॥
कविः सुकृतस्य माहात्म्यमाह
भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जनः स्वजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ ५५ ॥
२३
Jain Education International
१ हं चान्दनैर । २ च. छ. मूलस्य । ३ घ खण्डं । ४ घ. न चरति । ५ हं. यत्तपो । ६ क, ग, घ. सुजनताम् । ७ च. विफलं ।
For Private & Personal Use Only
www.jainelibrary.org