________________
भर्तृहरिकृत शतकत्रयम्
[१. ५६-५८] यस्य नरस्य विपुलं विस्तीर्ण पूर्वसुकृतं पुरा कृतं पुण्यं अस्ति । तस्य पुंसः भीमं वनं पुरं नगरं भवति । किं पुरम् ? । प्रधानम् गढमढमन्दिरप्राकारसहितम् । तस्य पुंसः सर्वो जनो निखिललोकः स्वजनतां मित्रतां याति प्राप्नोति । च अन्यत् । कृत्स्ना हं. कृष्णा] भूः समस्ताऽपि वसुंधरा सनिधिरत्नपूर्णा भवति । सत्प्रधानानि निधीनि संनिधीनि, सन्निधीनां रत्नैः पूर्णा सन्निधिरत्नपूर्णा । सन्निधानरत्नैः संभृता इत्यर्थः। अत एव प्राणिनां पूर्वकृतपुण्यमेव विलोक्यते ॥ ५५॥
पुनः पुण्यप्रभावमाह कविःवने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमैस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५६ ॥
प्राणिनां पुरा कृतानि पुण्यानि रक्षन्ति । कं प्राणिनम् ? । सुप्तं प्रमत्तम् । वा अथवा विषमस्थितम् । क? । वने रणे । पुनः क ? । शत्रुजलाग्निमध्ये । पुनरपि क ? । महार्णवे पर्वतमस्तके वा ॥ ५६ ॥
अथ कविः कर्मस्वभावमाहमजत्वम्भसि यातु मेरुशिखरं शत्रु जयत्वाहवे
वाणिज्यं कृषिसेवनादि सकला विद्याः कलाः शिक्षतु । आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं पुनर्
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ५७ ॥ इह अस्मिञ् जीवलोके अभाव्यं न भवति । कर्मवशतो भाव्यस्य पदार्थस्य कुतो नाशः। अम्भसि पानीये (च. ट. जले) मञ्जतु झम्पां ददातु । अन्यच्च । प्राणी मेरुशिखरं सुरगिरिशृङ्गं यातु । आहवे संग्रामांगणे शत्रु वैरिणं जयतु । वाणिज्यं करोतु । कृषिसेवनादि करोतु । सकला: समस्ताः विद्याः कलाः शिक्षतु । पुनः पुनरपि यत्नं कृत्वा अभियोग[मुद्यमं] विधाय विपुलं आकाशं खगवत् पक्षिवत् प्रयातु गच्छतु । तथाप्यभाव्यं न भवति ।। ५७ ॥
अथ विवेकस्थितिमाह कविःवरं प्राणच्छेदः समदमघवन्मुक्तकुलिश
प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः । तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ संपातः पयसि पयसां पत्युरुचितः ॥ ५८ ॥ अहह इति खेदे । तुषाराद्रेः सूनोः हिमाचलस्य पुत्रस्य मैनाकस्य पयसां पत्युः समुद्रस्य पयसि पानीये संपातो निपातो नोचितः । क सति । पितरि हिमाचले क्लेशविवशे
१. च संकटे। २. ग. च. विषमं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org