________________
[ १.५९-६१]
नीतिशतकम् सति दुःखविह्वले सति । समदमघवन्मुक्तकुलिशप्रहारैः प्राणच्छेदो वरं जीवनाशो वरम् । समदो मदसंयुक्तो योऽसौ मघवा इन्द्रः तेन मुक्ताः ये कुलिशप्रहाराः वज्राघाताः, तैः । किं० कुलिशप्रहारैः ! । उद्गच्छद्धहुलदहनोद्गारगुरुभिः ऊर्ध्वं गच्छन्तो ये बहुलाः प्रचुराः दहनस्य वैश्वानरस्य उद्गाराः तैरुदारैर्गुरवः प्रबलास्ते, तैः । परं तथापि जनके क्लेशनिमग्ने सति स्वयमात्मरक्षाय (2) समुद्रे पतितुं न युक्तम् ॥ ५८ ॥
अधुना कविर्दैवगति प्राहनेता यत्र बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
खर्गो दुर्गमनुग्रहः खलु हरेरावणो वारणः । इत्यैश्वर्यबैलान्वितोऽपि मघवान् भग्नः परैः संगरे
तद् व्यक्तं ननु दैवमेव शरणं धिग् धिग वृथा पौरुषम् ॥५९॥ , मघवान् (छ. बलभिद्) इन्द्रः संगरे संग्रामे परैर्वैरिभिः भन्नः । किं० मघवान् ? । इति प्रोच्यमानः । ऐश्वर्यबलान्वितोऽपि स्वामित्वसैन्य( हं. सौम्य )संयुक्तोऽपि । यस्य मघवतो बृहस्पतिर्नेता शिष्या (क्षा )दाता । यस्य मघवतः प्रहरणं शस्त्रं वज्रम् । यस्य मघवतः सैनिकाः सेनाचराः सुराः देवाः । यस्य मघवतो दुर्गो (ट. दुर्ग) वप्रः स्वर्गः । खलु निश्चितम् । हरेः श्रीवासुदेवस्य अनुग्रहः प्रसादः । यस्य मघवतः ऐरावणो वारणो गजः । तथापीन्द्रो दैत्यैर्भमः । किं कारणम् ? । तत् तस्मात्कारणात् । ननु निश्चितं व्यक्तं प्रकटं दैवमेव शरणम् । विग धिग् वृथा पौरुषम् । एतावता दैवात् समर्थः कोऽपि नास्ति ॥ ५९॥
अथ व्यवसायाधिक्यमाह कविः
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी। ... तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ ६० ॥
पुंसां पुरुषाणां फलं कर्मायत्तं वर्तते । बुद्धिः कर्मानुसारिणी वर्तते । तथापि सुधिया पुंसा सुविचार्यैव कुर्वता भाव्यं विचार्य विचार्य कार्य कार्यम् ॥ ६० ॥
अन्यच्च
आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः। नास्त्युद्यात् परो बन्धुर् यं कृत्वा नावसीदति ॥ ६१ ॥
हि निश्चितम् । मनुष्याणां महारिपुरालस्यं प्रमादो वर्तते। किं० प्रमादः । शरीरस्थः। उद्यमात्परो व्यवसायादन्यो बन्धुर्बान्धवो नास्ति । किं कृत्वा ? । प्राणी यं उद्यम बन्धुं कृत्वा । न अवसीदति न दुःखी भवति ॥ ६१ ॥
१ज. ऐरावतो। २. हं. रावणः; घ. वाहनः । ३ घ. समन्वितो। ४ छ. घ. बलमिद ग. बलिभिर ज. मघवा । ५ ग. तद्युक्तं । ६ग. च. 'म परो; घ.मसमो। ७ घ. कृत्वा थे।
४ शतकत्र. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org