________________
२६
भर्तृहरिकृत- शतकत्रयम्
अथ मूर्खजनसंसर्गफलमाह
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
"मा मूर्खजनसंसर्गः सुरेन्द्र भवनेष्वपि ॥ ६२ ॥ पर्वतदुर्गेषु वनचरैः सह शशक-संबर- हरिणप्रमुखैः सह वने भ्रान्तं वरम् । मूर्खजनसंसर्गः सुरेन्द्रभ(च. ट. भु ) वनेषु इन्द्रसभायाम् अपि न वरम् । एतावता विद्वज्जनसंसर्ग एव प्रधानः ॥ ६२ ॥
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ ६३ ॥ इति सुगमार्थः ॥ ६३ ॥ अथ काञ्चनगुणाना कविः -
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । स एव वैक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥६४॥ • सर्वे गुणाः काञ्चनं सुवर्ण आश्रयन्ति । कथम् ? । यस्य पुंसः वित्तं सुवर्णमस्ति स नरः अकुलीनोऽपि कुलीनः । यस्य वित्तमस्ति सः अपण्डितोऽपि पण्डितः । यस्य वित्तं स मूर्खोऽपि श्रुतवान् विद्वान् । यस्य वित्तं सोऽविनीतोऽपि विनीतः । यस्य वित्तं सः अवक्तापि वक्ता । यस्य वित्तं सः अदर्शनीयोऽपि कुरूपोऽपि दर्शनीयः । अतः कारणात् सर्वे गुणाः वित्तवति भवन्ति ॥ ६४ ॥
अथ धीरत्वमाह कविः
[ १. ६२-६६ ]
रत्नैर्मास्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं नै निश्चितार्थाद् विरमन्ति धीराः ॥ ६५ ॥
महार्थैः बहुमूल्यै रत्नैः पदार्थैः देवा न तुतुषुः न जहर्षुः [ जहृषुः ] । देवा भीमविषेण रौद्रगरेण भीतिं न भेजिरे । देवाः सुधां विना विरामं न प्रययुः विरतिं न प्रापुः । कथं० धीराः ? । प्राणिनो निश्चितार्थात् सत्यार्थात् न विरमन्ति न व्याघुटन्ति ॥ ६५ ॥ अथ सत्पौरुषीं प्रकृतिमाह कविः -
सन्त्यन्येऽपि बृहस्पतिप्रभृतयोऽसंभाविनः पञ्चषास्
तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।
द्वावेव ग्रसते दिनेश्वर - निशाप्राणेश्वरौ भास्करौ
भ्रातः ! पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ ६६ ॥
Jain Education International
१. भुवने । २ घ. श्रुतिमान् । ३ घ. युक्ता । ४ च. जनाः । ५ क. ग. घ. व. छ. ज. महार्हेस् । ६ घ. विनिश्चिता । ७ ग. घ. संभाविताः । ८ घ. भास्वरौ ।
For Private & Personal Use Only
www.jainelibrary.org