SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ [ १.६७-६९ ] नीतिशतकम् हे भ्रातः ! पश्य पश्य अवलोकयावलोकय । दानवपती राहुः । पर्वणि सूर्यचन्द्रग्रहणे. (ग्रहण -) समये द्वावेव ग्रसते । द्वौ कौ ? । दिनेश्वर निशाप्राणेश्वरौ सूर्याचन्द्रमसौ । किं० दिनेश्वरनिशाप्राणेश्वरौ ? | भास्करौ दीप्तिकरौ । अन्येऽपि बृहस्पतिप्रभृतयः पञ्चषा वर्तन्ते पञ्चषट् संख्या येषां ते पञ्चषाः ? । एष ( क. छ. एषो ) राहुः तान् प्रति सोमयमगुरुशुक्रादीन् प्रति वा मङ्गलबुध (क. च. छ. 'बुद्ध ) गुरुशुक्रशनिप्रभृतीन् प्रति न वैरायते न वैरं करोति । प्रसते द्वयोः सूर्याचन्द्रमसोरेव । किं० दानवपती राहु: ? । शीर्षावशेषाकृतिः शीर्षमेव मस्तकमेव अवशेषा आकृतिः शरीरं यस्य सः । शरीरं मूलतो नास्ति । एकेन शीर्षेणैव सूर्या (च. ट. सूर्य ) चन्द्रमसौ सर्वदा निगलितौ ॥ ६६॥ 1 श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । आभोति कायः करुणापराणां परोपकारेण न चन्दनेन ॥ ६७ ॥ • श्रोत्रं श्रवणं एव निश्चयेन । श्रुतेन शास्त्रेण आभाति । कुण्डलेन न कर्णाभरणेन न । तथा तेन प्रकारेण पाणिर्हस्तो दानेन आभाति शोभते । न तु कङ्कणेन । करुणापराणां दयापराणां कायः परोपकारेण आभाति न चन्दनेन । महतां मण्डनं बाह्यमण्डनादपि अभ्यन्तरं महत् ॥ ६७ ॥ जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशः काये जरामरणजन्मभीः ॥ ६८ ॥ 2७ ते सुकृतिनः पुण्यवन्तो जयन्ति । रससिद्धाः कवीश्वराः जयन्ति सर्वोत्कर्षेण वर्तन्ते । कथम् ? । येषां सुकृतिनां कवीश्वराणामपि यशः काये जरामरणजन्मभीर्नास्ति । जरा च मरणं च जन्म च जरामरणजन्मानि तेषां भीः जरामरणजन्मभीः । येषां यशः शरीरं निश्चलं तेषां जरामरणभीः का ? ॥ ६८ ॥ अथ तत्त्वविदः प्राह कविः - यात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत् प्राप्नोषि मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम् । तरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ ६९ ॥ प्राणिन् । तत् तस्मात्कारणात् धीरो भव । किमुत्सुकत्वेन ? । तस्मात् कस्मात् ? । धात्रा विधात्रा यत् स्तोकं वा महद् धनं निजभालपट्टलिखितं वर्तते । तत् प्राप्नोषि (ट. °ति ) । मरुस्थलेऽपि नीरसदेशेऽपि । परं नितरां अतिशयेन चेदधिकं वाञ्छसि तदा मेरौ सुरगिरावपि १ घ. श्रुतं । २ घ. विभाति । ३ग. घ. प्राप्नोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy