SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २८ भर्तृहरिकृत - शतकत्रयम् [१.७०-७२] अतो नाधिकम् । तत् तस्मात्कारणात् धीरो भव । वित्तवत्सु धनवत्सु कृपणां वृत्तिं लोभवृत्तिं मा कृथाः । नो चेन्मन्निवेदितं मन्यसे तदा पश्य पश्य । कूपे, अपि पुनः । पयोनिधौ घटः कुम्भः तुल्यं जलं गृह्णाति । स्वभरणान्नाधिकम् । यादृशं भरणं तादृशं भाग्यम् । भाग्यादधिकं कापि किमपि न प्राप्यते । तत्त्वमिदम् ॥ ६९ ॥ अथ धीराधीरयोः स्वरूपमाह कविः - लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ७० ॥ वा भषणः । पिण्डदस्य हनदायकस्य लाङ्गूलचालनं पुच्छो (हं. लो) डनं कुरुते । च अन्यत् । अधश्चरणावपातं कुरुते । श्वा पिण्डदस्य वदनोदरदर्शनं च कुरुते । वदनं चोदरं च वदनोदरं तयोर्दर्शनं वदनोदरदर्शनम् । किं कृत्वा ? । भूमौ निपत्य । तु पुनः । गजपुङ्गवो गजेन्द्रो धीरं विलोकयति । च अन्यत् चाटुशतैः भुङ्क्ते । एवं धीराधीरयोः स्वरूपं भवति ॥७०॥ अथ राजशिष्या (क्षा ) माह कवि : राजन् ! दुधुक्षसि यदि क्षितिधेनुमेन तेनोद्य (?) वत्समिव लोकर्ममुं पुषाण । तस्मिंस्तु सम्यगनिशं परिपोष्यमाणे नानाफला फलति कॅल्पलतेव भूमिः ॥ ७१ ॥ हे राजन् ! यदि चेत् । एनां क्षितिधेनुं दुधुक्षसि दोग्धुमिच्छसि । तेन कारणेन अमुं लोकं पुषाण । 'पुष पुष्टौ' । प्रजापोषणं कुरु । कमिव ? । वत्समिव । यथा धेनुं दोग्धुकामः पुमान् वत्सं तर्णकं पुष्णाति प्रतिपालयति । तु पुनः । लोकवत्सं ( छ. °से) अनिशं निरन्तरं सम्यक् परिपोष्यमाणे भूमिकामधेनुः नानाफला फलति । केव ? । कल्पलतेव । यथा कल्पलता परिपोष्यमाणा सती नानामनोरथफला फलति ॥ ७१ ॥ अथ नृपनीतिस्वरूपमाह कवि : सत्यानृता च परुषा प्रियवादिनी च हिंसा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुर नित्यर्धनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥ ७२ ॥ १ क. छ. वा । २ घ. ज. एतां । ३ क. ग. घ. तेनाद्य । ४ ग. घ. इमं । ५ ग. ताश्च । ६ ग. घ. नानाफलैः । ७ ग. कामलतेव । ८ ग. पुरुषा । ९ घ. समागमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy