________________
[१.७३]
नीतिशतकम् नृपनीतिरनेकरूपा वर्तते। किं० नृपनीतिः । सत्यानृता सत्या चानृता च सत्यान्ता । हंहो या सत्या सा अनृता कथम् ? । अनृता सा सत्या कथम् ? । परस्परविरोधः । अथ विरोधपरिहार इत्थम् । न भो या राजनीतिः सत्याप्युच्यते अनृता चालीकानामपि मन्दिरम् । पुनः किं० राजनीतिः ? । परुषा । च अन्यत् प्रियवादिनी । ननु या परुषा कठोरा सा प्रियवादिनी कथम् ? । या प्रियवादिनी सा कठोरा कथम् ? । अत्रापि परस्परविरोधः । नेत्थं भो या राजनीतिः परुषा कठोरापि कठोरवाक्यानि प्रोच्यन्ते । अन्यच्च प्रियवादोऽप्युच्यते । इति विरोधपरिहारः। पुनरपि किं० राजनीतिः ? । हिंस्रा मारणात्मका । अपि पुनः । दयालुः । हहो या हिंसा सा दयालुः कथम् ? । या दयालुः सा हिंस्रा कथम् ? । अत्रापि विरोधः । अथ विरोधपरिहार एवम्या राजनीतिः हिंसा हिंसामन्तरेण न भवति । दयालुरपि भवति । पुनरपि किं० राजनीतिः । अर्थपरा च अन्यत् । वदान्या दानशीला । ननु भो । या अर्थपरा अर्थपरायणा सा वदान्या दात्री कथम् ? । या दात्री सा अर्थपरा कथं स्यात् ? । इहापि.विरोधः । अथ विरोधपरिहारः एवम्-न हि । या नृपनीतिरर्थपरा अर्थसंग्रहशीला । तथा च वदान्या दानशीला रोरुविहण्डिनी [दारिद्यखण्डिनी] । पुनरपि किं० नृपनीतिः ? । नित्यव्यया चान्यत् प्रचुरनित्यधनागमा। कोऽर्थः । निरन्तरं नित्यम् । निरन्तरं व्ययो यस्यां सा नित्यव्यया । प्रचुरो नित्यं धनागमो यस्यां सा प्रचुरनित्यधनागमा । ननु भो विद्वन् ! या नित्यव्यया सा प्रचुरनित्यधनागमा कथम् ? । या प्रचुरनित्यधनागमा सा नित्यव्यया कथम् ? । अत्रापि परस्परं वाक्ययोर्विरोधः । अथ विरोधसंक्षेपः । ननु या राजनीतिः नित्यव्यया भवति प्रचुरनित्यधनागमापि भवति । नृपनीतिः केव । वाराङ्गनेव । यथा वाराङ्गना अनेकरूपा भवति । यथा वाराङ्गना अनृतापि सत्यापि भवति । परुषापि प्रियवादिनी भवति । अपि पुनः हिंस्रा दयालुर्भवति । अर्थपरा लोभिन्यपि वदान्या दायिनी भवति । नित्यव्ययापि प्रचुरनिस्वधनागमा भवति । यादृशी वाराङ्गना तादृशी नृपनीतिरुदाहृता ॥ ७२॥
अथ भूपानां नैर्गुण्यतामाह कविः
न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् । . होतारं जुहृतमपि स्पृष्टो दहति पावकः ॥ ७३ ॥ • नाम इति संबोधने । चण्डकोपानां अत्यन्तक्रोधिनां भूभुजां राज्ञां कश्चिदात्मीयो न । अमुमेवार्थ कविर्दृष्टान्तेन ह(ट. द्र)ढयति-पावको वैश्वानरो होतारमपि अमिहोत्रिणमपि दहति । किं० होतारम् ? । जुह्वतमपि आहुतिं ददतमपि ॥ ७३ ॥
अथ विधेस्तिरस्कारमाह कविःविरम विरसायासादस्माद् दुरध्यवसायतो
बिपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे । १ घ. होतारमपि जुह्वन्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org