________________
भर्तृहरिकृत - शतकत्रयम्
अपि जडविधे ! कल्याणाय व्यपेतनिजक्रमाः
कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ ७४ ॥
हे जडविधे हे मूर्खदैव ! अस्माद्दुरध्यवसायतो दुष्टाभिप्रायतो विरम विरतिं भज किं० दुरध्यवसायतः । विरसायासात् । विरसो विरङ्गो आयासो यस्य स विरसायासः; तस्मात् । हे विधे ! यत्त्वं विपदि कष्टे सति महतां धैर्यध्वंसं साहसविनाशं ईक्षितुमीहसे विलोकयितुं वाञ्छसि । हे जडविधे ! एते कुलशिखरिणः कुलगिरयः वा अथवा जलराशयः समुद्राः क्षुद्रा न अणवो न । किं० कुलशिखरिणः तथा जलराशयः ? । कल्याणाय व्यपेतनिजक्रमाः स्वकीय अनुक्रमाः । एतावता महतां साहसव्यपगमं धैर्यध्वंसं न कोऽपि कर्तु क्षमः ॥ ७४ ॥ अथ दुरात्मनां प्रकृतिमाह कविः
अकरुणत्वमकारणविग्रहः परंधनाय रतिः परयोषिति ।
स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥७५॥
हि निश्चितम् । दुरात्मनां इदं प्रकृतिसिद्धं सहजसंपन्नम् । इदं किम् ? । अकरुणत्वं निर्दयत्वम् । दुरात्मनां सहजेन अकरुणत्वं भवति । अन्यच्च । दुरात्मनां अकारणविग्रहो भवति । तथा दुरात्मनां परधनाय रतिर्भवति परधनहरणे संतोषो भवति । अपरं स्वजनबन्धुजनेषु कुटुम्बवर्गेषु असहिष्णुता भवति मत्सरः स्यात् ॥ ७५ ॥ अथ धीरस्य धीरत्वमाह कविः --
कान्ताकटाक्षविशिखा न खनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः । कर्षन्ति भूरिविषयाश्च न लोभपाशा
[१.७४-७७]
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ ७६ ॥
स धीरः इदं कृत्स्नं समस्तं लोकत्रयं जयति जयनशीलो भवति । यस्य सत्पुरुषस्य कान्ताकटाक्ष विशिखा प्रियाकटाक्षबाणाः । चित्तं न खनन्ति । 'खन विदारणे' । न विदारयन्ति । अन्यच्च यस्य चित्तं कोपकृशानुतापः क्रोधवैश्वानरतप्तिः । चित्तं न निर्दहति न प्रज्वालयति । चान्यद् लोभपाशा न कर्षन्ति नाक्रमन्ति । किं० लोभपाशाः ? । भूरिविषयाः भूरिः प्रचुरो विषयो गोचरो येषां ते भूरिविषयाः । त एव धन्या येषामेते विशेषाः प्रधनं (च. ट. प्रधानं ) यान्ति ॥ ७६ ॥
अथ खल- सज्जनयोः प्रीतेः स्वरूपमाह कविः -
आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खल-सज्जनानाम् ॥ ७७ ॥
१ क. छ. क्षुद्रो । २ ग. परधनापहृतिः परयोषितः । ३ ग. प्रकृत ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org