SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ [१. ७८-८० ] नीतिशतकम् ३१ खल-सज्जनानां मैत्री दिनस्य पूर्वार्ध - परार्धतुल्या वर्तते । यथा दिवसस्य पूर्वार्धपरार्धे वर्तेते । तथा खलसज्जनानां मैत्रीति तात्पर्यम् । कथम् ? । खलस्य मैत्री आरम्भगुर्वी क्रमेण शनैः शनैः क्षयिणी त्रुटनशीला । सज्जनस्य मैत्री पुरा पूर्वं लघ्वी पश्चात् शनैः शनैः वृद्धिमती वर्धनशीला । इति दुर्जन- सज्जनयोः प्रीतेः स्वभावः ॥ ७७ ॥ पुनः सत्पुरुषचेष्टितमाह कविः - प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ७८ ॥ सतां सत्पुरुषाणां इदं असिधाराव्रतं खड्गधारोपमव्रतम् । केनोद्दिष्टम् । किं० व्रतम् ? । दुःकरम् । इदं किम् ? । प्रच्छन्नं गुप्तं प्रदानं निर्घातदानम् । अन्यच्च गृहं उपगते पुरुषे संभ्रमविधिः आदरक्रिया । पुनः प्रियं कृत्वा मौनम् । चान्यत् उपकृतेः सदसि सभायां कथनम् । अपरं किम् ? | लक्ष्म्या अनुत्सेको (क. हं. च. अनुच्छेदो) निरहंकारता । पुनः किम् ? । परकथा निरभिभवसाराः, अपरा भवसाराः । सतां सत्पुरुषाणाम् इदं व्रतम् ॥ ७८ ॥ पुनः सतां चेष्टितमिदम् छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः संतप्यन्ते ने ते विपदा ॥ ७९ ॥ ते सन्तो विपदा न संतप्यन्ते न दुःखिनो भवन्ति । सन्तः किं कुर्वन्तः ? । इति विमृशन्तः इत्थं विचिन्तयन्तः । इतीति किम् ? । तरुर्वृक्षः छिन्नोऽपि रोहति उद्गच्छति । चन्द्रः शशी क्षीणोऽपि क्षयं यातोऽपि पुनरुपचीयते वृद्धिं प्राप्नोति । इति विमर्शनां कुर्वन्तः सन्तो विपदि कष्टेऽपि सति नो दीनमानसा भवन्ति ॥ ७९ ॥ 'भवन्ति नम्रास्तरवः फैलोद्गमे नवाम्बुर्भिर्भूरिविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ ८० ॥ परोपकारिणां परकार्यनिरतानां एष स्वभाव एव सहजमेव । यत्तु सत्पुरुषाः समृद्धिभिः संपद्भिः अनुद्धताः भवन्ति अनुत्सेका भवन्ति । [ युक्तमिदं तरवो वृक्षाः फलोद्गमे फलाम्रा भवन्ति नमनशीलाः स्युः । घना मेघाः अम्बुभिः पानीयैः भूरिविलम्बिनो न संवन्ति ] प्रचुरमार्गातिक्रमिणो न भवन्ति । यतः 'परोपकाराय सतां विभूतयः' इति रहस्यम् ॥ ८० ॥ १ ग. 'नीया । २ ग. न. विधुरेऽपि । ३ घ फलोद, मैर ४ भूमिं । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy