________________
३२
भर्तृहरिकृत-शतकत्रयम्
[१.८१-४] पद्माकर दिनकरो विकेचं करोति चन्द्रो विकाशयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपिजलं ददाति सन्तःवयं परहितेषु कृताभियोगा॥१॥
सन्तः सत्पुरुषाः परहितेषु परकार्येषु स्वयं कृताभियोगा भवन्ति कृतोद्यमाः स्युः । यथा दिनकरः सूर्यः पद्माकरं कमलवनखण्डं विकाशं विकस्वरं करोति । चन्द्रः कैरवचक्रवालं कुमुदिनीवृन्दं स्वयं विकाशयति । अपि पुनः । जलधरो नाभ्यर्थितोऽपि अयाचितोऽपि जलं ददाति । तथा सत्पुरुषाः स्वयमेव परकार्यपरायणाः भवन्ति ॥ ८१ ॥
अधुना शीलप्रतिपालनयनस्वरूपमाह कविःवरं शृङ्गोत्तुङ्गाद् वैरशिखरिणः कापि विषमे
पतित्वाऽयं कायः कठिनदृषदन्तर्विदलितः। वरं न्यस्तो हस्तः फणपतिमुखे तीक्ष्णदशने
वरं वह्नौ पातस् तदपि न कृतः शीलविलयः ॥ ८२ ॥ प्राणिनां वरशिखरिणः क्वापि विषमे पतित्वा अयं कायः कठिनदृषदन्तर्विदलितो घरं प्रधानम् । किं० वरशिखरिणः ? । शृङ्गोत्तुङ्गात् शृङ्गमुत्तुङ्गं उच्चैस्तरं यस्य सः शृलोत्तुनः, तस्मात् । अन्यच्च हस्तः फणपतिमुखे पन्नगवदने न्यस्तः क्षिप्तो वरम् । किं० फणपतिमुखे । तीक्ष्णदशने तीक्ष्णा दशना दन्ता यस्य स तीक्ष्णदशनः, तस्मिन् तीक्ष्णदशने । देहिनां वही पातो (च. छ. ट. पातौ ) अग्नौ निपतनं वरं सुन्दरम् । तदपि तथापि शीलविलयः कृतो न परं न भव्यः ॥ ८२ ॥
अथ सूरपुरुषस्याधिक्यमाह कविःएकेनापि हि शूरेण पादाक्रान्तं महीतलम् । क्रियते भास्करेणेव स्फुटं स्फुरिततेजसा ॥ ८३ ॥
शूरेण शूरपुरुषेण एकेनापि महीतलं पादाक्रान्तं क्रियते । शूरेण केनेव ? । भास्करेणेव । यथा भास्करेण सूर्येण महीतलं पादाक्रान्तं किरणाक्रान्तं स्फुटं प्रकटं क्रियते विधीयते । किं० भास्करेण ? । स्फुरिततेजसा दीप्रप्रतापेन ।। ८३ ॥
अथ धीरस्य धैर्यवृत्तिमाह कविःकदर्थितस्यापि हि धैर्यवृत्तेन शक्यते धैर्यगुणः प्रमाष्टुम् ।
अधोमुखस्यापि कृतस्य वह्वेर्नाधः शिखा यान्ति कथंचिदेव ॥८॥ सुधैर्यवृत्तेः पुरुषस्य धैर्यगुणो धीरमहिमा प्रमाष्टुं स्फेटयितुं न शक्यते। किं० धैर्यवृत्तेः ।
१ ग. विकची । २ घ. तोऽपि जलदः सलिलं ददाति । ३ घ. गुरु। ४ हं. फणि । ५. क. छ. सूरेण। ६ग. क्षमातलम्। ७ग. स्फुरत्-ध. स्फार-। ८क. छ. तेजसाम् । ९ग. घगुणं । १० ग. घ. कदाचिदेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org