________________
[१.८५-८७ ] नीतिशतकम्
३३ कदार्थतस्यापि विडम्बितस्यापि । अमुमेवार्थ कविर्दृष्टान्तेन दृढीकरोति-वडूः शिखाः ज्वालाः अधो न यान्ति नीचैर्न गच्छन्ति । किं० वह्नः ? । अधोमुखस्यापि कृतस्य नीचैर्मुखविहितस्य ॥ ८४॥
अथ शीलस्य महिमा [ नम् ] आह कविः
वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात् - मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ ८५ ॥ तस्य पुरुषस्य वह्निर्वैश्वानरो जलायतेऽमृतायते । तम्य पुंसः तत्क्षणात् जलनिधिः समुद्रः कुल्यायते नीकायते । तस्य पुंसो मेरुर्लक्षयोजनप्रमाणोऽपि स्वल्पशिलायते ह्रस्वशिला इवाचरति । तस्य पुंसः सद्यस्तत्कालं मृगपतिः सिंहः कुरङ्गायते मृग इव भवति । तस्य पुंसः [व्यालो] दुष्टः सर्पो माल्यगुणायते कुसुममाला इव भवति । तस्य पुंसः विषरसः पीयूषवर्षायते अमृतवर्षा इव भवति । यस्य अङ्गे यस्य शरीरे शीलं समुन्मीलति समुल्लसति । किं० शीलम् ? । अखिललोकवल्लभतमम् । अखिलश्चासौ लोकः [ अखिललोकः ], अखिललोकस्य प्रकृष्टं वल्लभ अखिललोकवल्लभतमम् । 'प्रकृष्ट तरतमौ' । तमप्रत्ययः ॥ ८५ ॥
अथ तेजखिनः पुरुषस्य स्वरूपमाह कविः
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः । . तत् तेजस्वी पुरुषः परकृतनिकृतिं कथं संहताम् ॥ ८६ ॥
यद् अचेतनोऽपि इनकान्तः सूर्यकान्तः सवितुः श्रीसूर्यस्य पादैः (ट. किरणैः) स्पृष्टः सन् चरणैः संघट्टितः सन् प्रज्वलति अग्निज्वालां विमुञ्चति । तत् तदा तेजस्वी पुरुषः परकृतनिकृति परकृतावहेलनां कथं सहताम् ? ॥ ८६ ॥
अथ दुर्जनप्रतिक्रियास्वरूपमाह कविःव्यालं बालमृणालतन्तुभिरसौ रोढुं समुज्जृम्भते
भेत्तुं वज्रमणीन् शिरीषकुसुमप्रान्तेन संनह्यते । माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते
नेतुं वाञ्छति यः सतां पथि खलान् सूक्तैः सुधास्यन्दिभिः ॥८७॥ यो मन्दबुद्धिः [सूक्तैः ] खलान् दुर्जनान् सतां पथि उत्तमानां मार्गे नेतुं वाञ्छति १क. ग. च. यदि चे। २ ग. स्पृष्टोऽपि ज्व। ३ ज. तुः सूर्यकान्तः। ४ घ. यस्तेजस्वी। ५ क निकृतं । ६ घ. सहते। ७ घ. संनह्यति । ८ क. क्षीराम्बुधेरी ।
५ शतकत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org