SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिकृत - शतकत्रयम् [१.८८-९०] प्रतिबोधयितुमिच्छति । कथंभूतैः सूक्तैः ? । सुधास्यन्दिभिः अमृतसाविभिः । स किं कर्तुमिच्छति ? । असौ मूढः व्यालं दुष्टगजं बालमृणालतन्तुभिः कोमलपद्मतन्तुभिः रोद्धुं समुज्जृम्भते बद्धुं समीहते । रे मन्दमते ! व्यालं बालमृणालतन्तुभिः कश्चित् रोद्धुं समर्थो भवति ? । अपि तु न । स सरलाशयः शिरीषकुसुमप्रान्तेन सप्तच्छदपुष्पाग्रेण वज्रमणीन् मेत्तुं हीरकरत्नं वेद्धुं संनह्यते सज्जीभवति । रे मूढ ! । वज्रमणयः शिरीषकुसुमप्रान्तेन केनापि विध्यन्ते ? । अपि तु न । स मूर्खः क्षाराम्बुधेः समुद्रस्य माधुर्य मधुबिन्दुना रचयितुं ईहते समभिलषति । रे अज्ञान ! एकेन मधुबिन्दुना क्षारसमुद्रस्य माधुर्यं कोऽपि कर्तुं क्षमो भवति ? । अपि तु न । स दुर्जनानां ( ? नानू ) प्रतिबोधयितुं समर्थः स्यात् ॥ ८७ ॥ अथ पार्थिवसेवा फलमाह कवि : ३४ आज्ञा कीर्तिः पालनं सज्जनानां दानं भोगो मित्रसंरक्षणं च । येषामेते षड् गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ ८८ ॥ तेषां पुरुषाणां पार्थिवोपाश्रयेण नरेन्द्रसेवनया कोऽर्थः किं फलम् ? । येषां पुरुषाणामेते षड् गुणाः षाड्गुण्यता न प्रवृत्ताः । ते के षड् गुणाः ? । आज्ञा येषां भूपतिसेविनां लोकेषु आज्ञा न भवति तेषां नृपसेवनेन किम् ? । अन्यच्च कीर्तिः न भवति तदा किम् ? । सज्जनानां पालनं न भवति । सज्जनाः पालयितुं न शक्यन्ते इत्यर्थः । दानं दातुं न शक्यते । अपि तु भोगोऽपि न, पञ्चेन्द्रियसौख्यं न । च अन्यत्, मित्रसंरक्षणं न मित्राणां रक्षितुं न शक्यते । तदा नृपसेवनया किम् ? । एते षड् गुणाः नृपसेवनतो भवन्ति ॥ ८८ ॥ अथ जडशिष्या (क्षा) माह स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः । 1 विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ८९ ॥ विधात्रा वेधसा । कोऽर्थः ? । अज्ञतायाः मूर्खतायाः, छादनं विनिर्मितं गोपनकं कथितम् । किं० छादनम् ? | स्वायत्तं आत्मायत्तम् । एकान्त हितं सर्वथापि हितकारि । किं तत् छादनम् ? । सर्वविदां समाजे विद्वत्सभायां विशेषतोऽपण्डितानां मूर्खाणां विभूषणं मौनमेव तूष्णीकतैव ॥ ८९ ॥ अथ नीचसंगतेः फलमाह - उद्भासिताखिलखलस्य विशृङ्खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः । दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरतैः सुखमास्यते कैः ॥ ९० ॥ १ घ. भूषणमज्ञ । २ घ. 'गतेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy