________________
[ १.९१-९२ ]
नीतिशतकम्
३५
कैः पुरुषैः अस्य नीचस्य गोचरगतैः सुखमास्यते उपविश्यते ? । अपि तु न कैरपि । किं० नीचस्य ? । उद्भासिताखिलखलस्य । उद्भासिताः उदयं प्रापिता अखिलाः समस्ताः खलाः दुर्जना येन सः, तस्य उद्भासिताखिलखलस्य उदयं प्रापितसमस्तनीचजनस्य । पुनः किं० नीचस्य : । विशृङ्खलस्य भ्रष्टस्य शिथिलस्य । पुनः किं० नीचजनस्य ? | प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः । प्राग्जाता पूर्व निर्मिता चान्यत् विस्मृता निजा आत्मीया अधमकर्मवृत्तिर्येन स प्राग्जातविस्मृतनिजाधमकर्मवृत्तिः, तस्य पूर्वकृतविस्मारितनिजाधमकर्मणः । पुनः किं० ? । दैवादवाप्तविभवस्य । दैवात् दैवयोगात् अवाप्तः प्राप्तो विभवो धनं येन स दैवादवाप्तविभवः, तस्य । पुनरपि किं० नीचस्य ? । गुणद्विषः गुणानां द्वेषो यस्य असौ गुणद्विट्, तस्य गुणद्विषः । अतः कारणात् नीचानां संगतौ सुखं न भवति ॥ ९० ॥
अथ विद्याप्रौढिमा ( मां ) प्राह
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो' विदेशगमने विद्या परं दैवतं
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ ९१ ॥ नास इति संबोधने । नरस्य पुंसः विद्या अधिकं रूपम् । यतः प्रोक्तं “विद्या रूपं कुरूपाणाम् ।" अन्यच्च, विद्या प्रच्छन्नं गुप्तं धनम् । च विद्या भोगकरी पञ्चाङ्गभोगसंपादयित्री । पुनर्विद्या यशःसुखकरी । पुनर्विद्या गुरूणां गुरुः । विद्या विदेशगमने बन्धुजनः मित्रजनः । विद्या परं दैवतम् । विद्या राजसु पूज्यते राजमण्डलेषु अर्च्यते । न हि धनं पूज्यते । किं बहुनोक्तेन ? । विद्याविहीनः पशुः ॥ ९९ ॥
अथ शिष्या ( क्षा ) माह
दाक्षिण्यं स्वजने दया परजने शाठ्यं जने दुर्जने
प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् । शौर्य शत्रुजने क्षमा गुरुजने नारीजने धूर्तता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥९२॥
च अन्यत् । ये पुरुषाः एवंविधा भवन्ति लोकस्थितिस्तेष्वेव, नापरेषु । किं० ते ? | कलासु कुशलाः निपुणाः । येषां पुरुषाणां स्वजने स्वकीयलोके दाक्षिण्यम् । येषां पुरुषाणां परजने परलोके दया । येषां दुर्जने जने शाठ्यं दुष्टाभिप्रायः । येषां साधुजने सुजनजने. प्रीतिः स्नेहः । येषां पुंसां खलजने दुर्जनजने स्मयः कोपः । येषां पुंसां च अन्यत् विद्वज्जने आर्जबम् । येषां शत्रुजने वैरिवर्गे शौर्यम् । येषां पुरुषाणां गुरुजने क्षमा । येषां पुंसां नारीजने धूर्तता चातुर्यता । एभिर्गुणैर्गुरुतामारोहति जनः ॥ ९२ ॥
१ च. बन्धुजने ! २ ग. पूजिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org