________________
३६
भर्तृहरिकृत - शतकत्रयम्
पुनरपि शिष्या (क्षा ) माह
करे श्लीष्यत्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयभुजयोर्वीर्यमतुलम् | हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोर् विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ ९३ ॥
प्रकृतिमहतां स्वभावमहतां पुरुषाणां ऐश्वर्येण विनापि इदं वक्ष्यमाणं मण्डनम् । इदं किं किम् ? | करे श्लाघ्यस्त्यागः ( ट. प्रशंसनीयं वितरणम्) । पुनः किम् ? । शिरसि मस्तके गुरुपादप्रणयिता (ट. नमनं ) गुरुचरणनम्रता । पुनरपि किम् ? । मुखे सत्या वाणी । पुनरपि किम् ? | विजयभुजयोः जयकारिदोर्दण्डयोः अतुलं प्रबलं वीर्य पराक्रमः (क. छ. प्राक्रमः) । पुनरपि किम् ? । हृदि स्वच्छा वृत्तिः स्वच्छप्रकृतिः । चान्यत् । श्रवणयोः श्रुतम् । चान्यत् । अधिगतं अधीतं महतां मण्डनमिदम् ॥ ९३ ॥ अथ महतां चरित्रविभूतिमाह
वहति भुवनश्रेणी शेषः फणाफलकस्थितां
कमठपतिना मध्ये कष्टं सदा स च धार्यते ।
तमपि कुरुते क्रोडाधीनं पयोधिरनादराद्
[१.९३-९५]
अहह महतां निःसीमानश् चरित्रविभूतयः ॥ ९४ ॥
1
शेषः पन्नगाधीशः भुवनश्रेणीं चतुर्दशभुवनमालां फणाफलकस्थितां फणावलीसमारोपितां वहति धारयति । कमठपतिना कूर्माधिपतिना मध्ये पृष्ठोपरि सदा सर्वदा कष्टं कृच्छ्रेण यथा भवति स शेषो धार्यते । पयोधिः समुद्रः तमपि शेषनागाधिराजं अनादरात् लीलया क्रोडाधीनं कुरुते उत्सङ्गाधीनं विदधाति । अहहेति आश्चर्ये । महतां चरित्रविभूतयो निःसीमानो वर्तन्ते ॥ ९४ ॥
अथ विजयश्रीस्वरूपमाह
स्पृहयति भुजयोरन्तरमायत करवालकररुह विदीर्णम् । विजयश्रीवराणां व्युत्पन्नप्रौढवनितेव ॥ ९५ ॥
[विजयश्रीवराणां ] भुजयोर्बाह्वोरन्तरं अन्तरालं स्पृहयति वाञ्छति । [ केव ? | प्रौढवनितेव । ] या प्रौढवनिता भवति सा वीराणां भुजयोरन्तरं स्पृहयति । ननु किं० भुजयोरन्तरम् ? । आयतकरवालकररुहविदीर्णम् । आयतो विस्तीर्णो योऽसौ करवालः खं इव ये
Jain Education International
१ ग. श्लाघस्त्यागौं । २ ग. घ. प्रणमनं, ग. मातृकायां यतेरनन्तरं द्वितीयतृतीयचरणभागौ व्यत्यस्तौ । ३ग. घ. विजयि; ग. 'भुजयोः पौरुषमहो । ४ ग. श्रुतिमधिगते । ५ ज.. भवन । ६ ग. घ. पृष्ठं । ७ ग. सदैव च घ. तदेव हि । ८ ग. दीयते । ९ ग. च. छ. व्युत्पन्ना ।
For Private & Personal Use Only
www.jainelibrary.org