________________
[१.९६-९८]
नीतिशतकम् कररुहाः नखास्तैर्विदीर्ण आयतकरवालकररुहविदीर्णम् । यथा व्युत्पन्नप्रौढवनिता वीराणां भुजयोरन्तरालं वाञ्छति तथा विजयश्रीरपि वीराणां भुजयोरन्तरालं वाञ्छतीत्यागमः। पथ्याछन्दः॥९५॥
सभाग्य-निर्भाग्यजातयोराधिक्यमाहपरिवर्तिनि संसारे मृतः को वा न जायते । स जातो येन जातेन याति वंशः समुन्नतिम् ॥ ९६ ॥
अस्मिन् संसारे को न मृतः पराशु(सुतां को न प्राप्तः ? । वा अथवा को न जायते । अपि तु सकलोऽपि संसारः । [कथंभूते संसारे ? । परिवर्तिनि विनश्वरे ।] येन जातेन वंशः समुन्नतिं याति स एव जातः । अपरैर्बहुभिर्जातैः किमित्यर्थः ॥ ९६ ॥ अथ तेजस्विनां गुणानाह
लज्जागुणौघजननी जननीमिवै वाम् । ___ अत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ९७ ॥ तेजखिनः पुरुषाः सुखं यथा भवति असूनपि प्राणानपि संत्यजन्ति । न पुनः प्रतिज्ञा संत्यजन्ति । किं० तेजस्विनः ? । सत्यव्रतव्यसनिनः । सत्यव्रतस्य व्यसनं विद्यते येषां ते सत्यव्रतव्यसनिनः, सत्यवादिन इत्यर्थः । पुनः किं. तेजस्विनः ? । स्वां प्रतिज्ञामनुवर्तमानाः । किं० प्रतिज्ञाम् । लजागुणौघजननीम् । लज्जा च गुणौघश्च लज्जागुणौघौ, तयोर्जनयितुं शीलमस्याः सा लज्जागुणौघजननी, ताम् । किं० प्रतिज्ञाम् ? । अत्यन्तशुद्धहृदयाम् । अत्यन्तं शुद्धं हृदयं यस्याः सा अत्यन्तशुद्धहृदया, तां अतिनिर्मलरहस्यामित्यर्थः । प्रतिज्ञां कामिव ? । स्वां जननीमिव । यथा तेजस्विनः असूनपि परित्यजन्ति न पुनः स्वां जननीं परित्यजन्ति । किं० जननीम् ? । लज्जागुणौघजननीम् । पुनः किं० जननीम् ? । अत्यन्तशुद्धहृदयाम् । तेजस्विनः किंकुर्वाणाः ? । स्वां जननीमनुवर्तमानाः । पुनः किं० तेजस्विनः ? । सत्यव्रतव्यसनिनः ॥ ९७ ॥
अथ सत्त्वमहिमानमाहसिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ ९८ ॥
सत्त्ववतामियं प्रकृतिः । खलु निश्चितम् । तेजसो हेतुः न वयः न वर्षातिक्रमः (हं. वरिषा)। कथम् ? । शिशुरपि सिंहः गजेषु गजेन्द्रेषु निपतति संमुखं गत्वा गजकुम्भस्थलमनु निपतति (ट. अनुपतति)। किं० गजेषु ? । मदमलिनकपोलभित्तिषु । मदमलिनाः
१ ग. कोपि। २ ग. इवार्याम्। ३ ग. परिवर्त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org