________________
भर्तृहरिकृत - शतकत्रयम्
[ १.९९-१०० ]
,
कपोलभित्तयो गण्डपाल्यो येषां ते मदमलिनकपोलभित्तयः तेषु । एतावता शिशुरपि सिंहो गजेन्द्राणां निर्वहणं कुरुते । तदा सत्त्वमेव प्रधानम्, न वयः प्रधानम् ॥ ९८ ॥
३८
अथ प्रतिपन्ननिर्वाहस्वरूपमाह
किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येव यः
किं वा नास्ति परिश्रमो दिनपतेरास्ते न यो निश्चलः । किं चाङ्गीकृतमुत्सृजन्ने मनसा श्लाघ्यो जनो लज्जते
निर्वाहः प्रतिपन्नवस्तुनि सतामेतद्धि गोत्रव्रतम् ॥ ९९ ॥
हि निश्चितम् । सतां सत्पुरुषाणां एतद्गोत्रवतं वर्तते । कुलाचारो वर्तते । यत् प्रतिपन्ने वस्तुनि निर्वाहः । केन न्यायेन ? | किमित्याक्षेपे । कूर्मस्य पातालकच्छपस्य । वपुषि शरीरे भरव्यथा भारस्य दुःखं नास्ति । यत् क्ष्मां पृथ्वीं न क्षिपति न परित्यजति । वा अथवा । किं दिनपतेः सूर्यस्य परिश्रमो नास्ति ?, यो निश्चलो न आस्ते । किं च श्लाघ्यो जनः अङ्गीकृतं उत्सृजन् सन् [मनसा ] मानसे न लज्जते ?, अपि तु लज्जत एव । अतः कारणाद् महतां व्रतं प्रतिपन्ननिर्वाहः एव ॥ ९९ ॥
अथ मन्त्रिणो मन्त्रस्वरूपमाह
दूरादर्थं घटयति नवं दूरतचापशब्द
कृत्वा भूयो भवति निरतः सत्सभापादनेषु ।
मन्दं मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मत्री कविरिव सदा खेदभारैरमुक्तः ॥ १०० ॥
मन्त्री कामं अत्यर्थ सदा सर्वदा खेदभारैरमुक्तो भवति । कथं ० मन्त्री ? । दूरात् परमण्डलाद् नवं नवीनमर्थं धनं घटयति संपादयति । च अन्यत् । दूरतः अपशब्द अन्यायं घटयति संपादयति । कार्यं कृत्वा । सत्सभा पण्डितसभा । [ तस्या ] आपादनेषु व्यापारणेषु निरतो भवति । पुनर्मत्री मन्दं मन्दं शनैः शनैः पदं रचयति स्थानं करोति । कया ? । लोकचित्तानुवृत्त्या । लोकानां चित्तानि लोकचित्तानि, लोकचित्तानां अनुवृत्त्या लोकाचित्तानुवृत्त्या जनचित्तावर्जने -- नेत्यर्थः । मन्त्री क इव ? | कविरिव । यथा कविः खेदभारैश्चिन्ताभरैरमुक्तो भवति । कविः किं कुरुते ? । दूरात् आत्मशक्तेः नवं अर्थ शास्त्रार्थं घटयति । चान्यत् दूरतोऽपशब्दं घटयति । शास्त्राणि कृत्वा भूयः पुनरपि सत्सभापादनेषु विस्तारणेषु निरतो भवति सावधानः स्यात् । च अन्यत् । मन्दं मन्दं पदं रचयति योजयते । कया ? | लोकचित्तानुवृत्त्या । विद्वल्लोकानां 'मनोरक्षणेन, मा विद्वांसोऽपशब्द निष्कासयन्तु । अत एव कवि - मन्त्रिणौ सर्वदापि चिन्ताचान्तौ स्तः ॥ १०० ॥
१ क. तु मनसा इत्यपि ग. सुमनसा । २ घ. त्यक्त्वा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org