________________
[ १. १०१-१०३ ]
नीतिशतकम्
अथ प्राप्तेः स्वरूपमाह -
दैवेन प्रभुणा स्वयं जगति यद् यस्य प्रमाणीकृतं तत् तस्योपनयेन् मनागपि मैदान् नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ १०१ ॥
दैवेन जगति पृथिव्यां स्वयं यत् यस्य प्रमाणीकृतं प्रमाणोपेतं कृतमित्यर्थः । मनागपि स्तोकमपि । तत् तस्योपनयेत् ढौकयेत्, प्राप्नोतीत्यर्थः । मदाद् गर्वात् । आश्रयः कस्याप्याधारः कारणं नैव । अमुमेवार्थं कविर्दृष्टान्तेन द्रढयति - जलधरे मेघे प्रत्यहं वर्षत्यपि परं चातकमुखे सूक्ष्मा एव पयोबिन्दवः पतन्ति । किं० बिन्दवः ? । द्वित्राः । द्वौ वा त्रयो वा प्रमाणं येषां ते द्वित्राः । एतावता यस्य यद् भाग्यलभ्यं तदेव भवति ॥ १०१ ॥
अथ संग्राममृतस्य कलामाह
अभिमुखनिहतस्य सतस्तिष्ठतु तावज् जयोऽथवा स्वर्गः । उभयबलसाधुवादः श्रवणसुखोऽसौ बैलात्यर्थम् ॥ १०२ ॥
३९
सतः सत्पुरुषस्य वा शूरस्य तावज्जयः अथवा स्वर्ग तिष्ठतु । असौ श्रवणसुखः अत्यर्थ बलातिबलं बध्नाति । किं० श्रवणसुखः ? । उभयबलसाधुवादः । उभयबले उभयसैन्ये साधुवादो यस्य स उभयबलसाधुवादः । किं० सतः ? | शूरस्य अभिमुख निहतस्य संग्रामसंमुखमारितस्य ॥ १०२ ॥
वचनकलाधिक्यमाह
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः । वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १०३ ॥
Jain Education International
पुरुषं केयूरा बाहुरक्षकाः न विभूषयन्ति । पुरुषं हारा न विभूषयन्ति । किं० हाराः ? । चन्द्रोज्वलाः चन्द्रवन्निर्मलाः । पुरुषं स्नानं न विभूषयति । विलेपनं न विभूषयति । कुसुमं न विभूषयति । अलंकृता मूर्धजाः केशा न विभूषयन्ति । एका वाणी पुरुषं समलंकरोति । या वाणी संस्कृता संस्कृतवत्रा पुरुषेण धार्यते । खलु निश्चितम् । भूषणानि श्रीयन्ते क्षयं यान्ति । परं प्राणिनां वाग्भूषणं भूषणम् [न क्षीयते ] | एतावता एकैव वचनकला विलोक्यते ॥ १०३ ॥
१ घ. महान् । २ घ. परिपूजके । ३ क. बलात्यर्थे; छ. बलात्यत्यर्थम् ।
For Private & Personal Use Only
www.jainelibrary.org