________________
भर्तृहरिकृत-शतकत्रयम्
[१. १०४] अथ स्वजनचेष्टितमाह अन्योक्त्यायदि नाम दैवगत्या जगदसरोजं कदाचिदपि जातम् । अवकरनिकरं विकिरैति तत् किं कृकवाकुरिव हंसः ॥ १० ॥
नाम इति संबोधने । यदि चेत् कदाचिदपि दैवगत्या जगत् असरोजं जातं निःकमलं जातम्, तत् किं हंसो राजहंसः अवकरनिकरं कचवरपुञ्ज विक(किरति विवरणं (क. छ. चरणविक्षेप) करोति ? । अपि तु न । हंसः क इव ? । कृकवाकुरिव कुर्कुट इव । यथा कृकवाकुरवकरनिकरं विकरति तथा राजहंसो न ॥ १०४ ॥
श्रीसिद्धसूरिगुरुसंनिहितप्रतापाच
छश्वत् कवित्वमतिमाप्य विचारदृष्ट्या । रम्येह भर्तृहरकाव्यवरस्य टीका
श्रीपाठकेन विदधे धनसारनाम्ना ॥१॥
॥ इति प्रथमशतकस्य नीतस्य टीकेयं [ समाप्ता] ॥
000000cccom
१ ग. संजातं।
२ घ. बिनाऽन्यत्र विकरति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org