________________
अथ द्वितीयं शृङ्गारशतकम् ।
अथ हरचरणस्मरणप्रथमकाव्यमाह
-
'चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभस्करो लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अन्तःस्फूर्जद पारमोहतिमिरप्राग्भारमुच्छेदयंश्
चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥
हरो महेशः योगिनामवगत तत्त्वविचारा ( क. रिणां चेतः सद्मनि मानसमन्दिरे विजयते सर्वोत्कर्षेण वर्तते । किं० हरः ? | ज्ञानप्रदीपः । ज्ञानस्य प्रदीपः ज्ञानप्रदीपः । जगदुद्द्योतकत्वात् । किं० ज्ञानप्रदीपः ?। चूडोत्तंसितचारुचन्द्र कलिकाचञ्चच्छ्रिखाभास्करः । चूडावन् मुकुटवदुत्तंसिता (क. छ. चोर्ध्वकृता ) चार्वी ( क. छ. चारुः ) मनोज्ञा चन्द्रकलिका तस्याः, चञ्चच्छिखायां भासं दीप्तिं करोतीति चूडोत्तंसितचारुचन्द्रकलिका चञ्चच्छिखाभास्करः । अन्योऽपि प्रदीपः चञ्च( हं.° पंच ̊ )च्छिखाभास्करो भवति । अत्रापि चारुचन्द्रकलिकाचञ्चच्छिखाभास्करो वर्तते - कान्तिकरो वर्तते । पुनः कथंभूतः ज्ञानप्रदीपो हरः ? । लीलादग्धविलोलका मशलभः । लीलया दग्धो विलोलश्चञ्चलः कामशलभो येन स लीलादग्धविलोलकामशलभः । युक्तोऽयमर्थः - अन्योऽपि प्रदीपः शलभानां पतङ्गानां दहति । तथाऽयं ज्ञानप्रदीपो हरः कामशलभस्य दाहं कुरुते । पुनः किं० ज्ञानप्रदीपो हरः ? । श्रेयोदशाग्रे स्फुरन् । श्रेयांस्येव कल्याणान्येव दशायं श्रेयोदशाग्रम् । तत्र स्फुरतीति श्रेयोदशाग्रे स्फुरन् । युक्तम् । अन्योऽपि दीपो दशाग्रे स्फुरति । ननु अयमपि हरः प्रदीपः श्रेयोदशाग्रे स्फुरतीति भावः । पुनः किं कुर्वन् । अन्तःस्फूर्जदपारमोह तिमिर प्राग्भारमुच्छेदयन् । अन्तर्गतं स्फूर्जदुल्लसत् अपारं मोहतिमिरस्य प्राग्भारम् उच्छेदयन् स्फेटयन् । अत एव ज्ञानप्रदीपो हरः कथ्यते ॥ १ ॥
अधुना शुभाशुभकर्मणोः फलमाह -
शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीरित्यनुभूयते स्थिरमतिस्फीते शुभे कर्मणि ।
Jain Education International
विच्र्च्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं
मुक्ताजालमिव प्रयाति झटिति भ्रस्यद् दिशो दृश्यताम् ॥ २ ॥ प्राणिना शुभे कर्मणि इत्यनुभूयते एवं फलमुपभुज्यते । किं० शुभे कर्मणि ? । स्थिरमतिस्फीते । स्थिरा चासौ मतिः स्थिरमतिः, स्थिरमतेर्नरस्य स्फीतं स्थिरमतिस्फीतं, तस्मिन् । इतीति किम् ? । शुभ्रं सद्म महद्भवलं गृहम् । अन्यच्च सविभ्रमा युवतयः हावभाव - १ घ. भास्वरो । २. ख. उद्भेदयन् छ. अच्छेदयन् । ३ग. स्थिरमिव; घ. स्फिरमिव । ४. ग. छिन्नस्मिन् । ५. घ. झटति.; ज. त्रुटिति ।
६ शतकत्र०
For Private & Personal Use Only
www.jainelibrary.org