________________
४२ भर्तृहरिकृत शतकत्रयम्
[२. ३-४] विभ्रमविलाससंयुक्ता नार्यः । अन्यच्च लक्ष्मीः प्राप्यते । किं० लक्ष्मीः? । श्वेतातपत्रोवला । श्वेतातपत्रेण उज्वला श्वेतातपत्रोज्वला । नितरामतिशयेन शुभे कर्मणि विच्छिन्ने सति क्षयं याते सति । इत्यनुभूयते फलमिति प्राप्यते । सौख्यं मुक्ताजालमिव भ्रस्यत् सत् दिशो दृश्यतां (हं. 'ऽदृश्यतां) प्रयाति । (ट. दृशोऽदृश्यतां प्रयाति अधः पतन्नेत्रोऽदृश्यतां प्रयाति) किं० मुक्ताजालं मुक्ताहारम् ? । अनङ्गकलहक्रीडात्रुटत्तन्तुकम् । [अनङ्गस्य कलहः अनङ्गकलहः ] अनङ्गकलहस्य क्रीडा अनङ्गकलहक्रीडा, तया त्रुटत्तन्तुकं सूत्रं यस्य तत् अनङ्गकलहक्रीडात्रुटत्तन्तुकम् । साकाझं कर्मात्र । ॥२॥
अथ प्राणिनां विकारपदमाह
तावदेव कृतिनामयं स्फुरत्येष निर्मलविवेकदीपकः । . यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः॥३॥
अयं एष निर्मलविवेकदीपकः कृतिनां तावदेव स्फुरति जागर्ति । यावद् विवेकदीपकः कुरङ्गचक्षुषां नायिकानां चटुललोचनाञ्चलैने ताड्यते । [चटुलानि लोचनान्येव अञ्चला वस्त्रप्रान्ताः (क. छ. प्रान्तः)] चटुललोचनाञ्चलाः, तैः । एतावता प्राणिनां तावदेव विवेको यावन्नायिकानां वशं ना(च. छ. न )याति इत्यर्थः ( क. इति तात्पर्यम् ; छ. नात्यर्थम्) ॥३॥
पुनस्तदेवाहधन्यास्त एव चपलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् । क्षामोदरोपरिलसत्रिवलीलतानां
दृष्ट्वाऽऽकृति विकृतिमेति मनो न येषाम् ॥ ४॥ त एव धन्याः, येषां मनः चपलायतलोचनानां आकृतिं शरीरं दृष्ट्वा विकृति न एति न प्रामोति । चपलानि चायतानि कमलदलवद्विस्तीर्णानि लोचनानि यासां ताश्चपलायतलोचनाः, तासाम् । किं० चपलायतलोचनानाम् ? । तारुण्यदपेघनपीनपयोधराणाम् । तारुण्यदर्पण घनौ निबिडौ पीनौ उन्नतौ पयोधरौ यासां ताः। तासां पुनः किं० । क्षामोदरोपरिलसत्रिवलीलतानाम् । क्षामं यदुदरं क्षामोदरं, क्षामोदरस्योपरि लसत्रिवलीलता यासां ताः क्षामोदरोपरिलसत्रिवलीलताः, तासाम् । वा क्षामोदरे परिलसत्रिवलीलतानां [इति] पाठः, तत्र क्षामोदरे कृशोदरे ॥ ४ ॥
अथ योगिनः पुरुषस्य स्वरूपमाहसदा योगाभ्यासे नवनववधूसंगमरसैर्
अविच्छिन्ना मैत्री स्फुरति कृतिनस् तस्य "किमिमैः । १. ग. 'नां हृदि, घ. 'नामपि। २. ज. चपल'। ३. ज. आदर्श चतुर्थपादः प्रथमपादानन्तरं दृश्यते। ४. ख. संगमनसोइ. ५. ग. किमुतैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org