________________
[२. ५-७]
नीतिशतकम् प्रियाणामालापैरधरमधुभिर्वक्त्रमैधुरैः
सनिःश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ ५॥ यस्य कृतिनः तत्त्वावबोधिनः अविच्छिन्ना मैत्री सदा सर्वदा योगाभ्यासे स्फुरति । तस्य कृतिना इमैः नवनववधूसंगमरसैः किम् ? । (छ. अपि तु किमपि न ।) च अन्यत् । प्रियाणामालापैः किम् ? । अधरमधुभिः किम् ? । किं० अधरमधुभिः ? वक्त्रमधुरैः। पुनः किं अधरमधुभिः ? । सनिःश्वा(ट. श्वा )सामोदैः । पुनरपि किं० अधरमधुभिः । सकुचकलशाश्लेषसुरतैः (ट. सहकुचकलशाश्लेषेण सुरतं यत्र तैरित्यर्थः ) ॥ ५ ॥
अथ स्त्रीणामाधिक्यमाह कविःभवति वचसि सङ्गयांगमुद्दिश्य वाती
श्रुतमुखरमुखानां केवलं पण्डितानाम् । जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ ६ ॥ कः पुमान् कुवलयनयनानां जघनं रमणप्रदेशं विहातुं त्यक्तुं समर्थः । अपि तु न कोऽपि । किं० जघनम् ? । अरुणरत्नग्रन्थिकाञ्चीकलापं अरुणानि यानि रत्नानि अरुणरत्नानि माणिक्यानि, अरुणरत्नानां ग्रन्थिः अरुणरत्नग्रन्थिः, अरुणरत्नग्रन्थिमयः काञ्चीकलापो यस्य सः अरुणरत्नग्रन्थिकाञ्चीकलापः, तम् । पण्डितानां वचसि केवलं सङ्गत्यागमुद्दिश्य वार्ता भवति । किं० पण्डितानाम् ? । श्रुतमुखरमुखानां श्रुतेन शास्त्रेण मुखराणि मुखानि येषां ते, तेषाम् ॥ ६॥
अथ कन्दर्पाधिक्यमाहमत्तेभकुम्भदलने भुवि सन्ति शूराः
केचित् प्रचण्डमृगराजवंधेऽपि दक्षाः । किं तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥ ७ ॥ भुवि पृथिव्यां मत्तेभकुम्भदलने शूराः सन्ति । केचित् पुरुषाः [प्रचण्ड] मृगराजवधेऽपि सिंहविदारणेऽपि दक्षाः सन्ति । तु पुनः । किमपि बलिनां पुरतः [प्रसह्य बलात्कारेण ] ब्रवीमि कथयामि । ते मनुष्याः विरला ये कन्दर्पदर्पदलने दक्षाः शूराः । ते विरला अल्पा इत्यर्थः ॥ ७॥
१. ख. घ. मधुरैर् । २. ख. मधुभिः; घविधुभिः । ३. ख. घ. वचसि भवति । ४.ख. च.भ्यासम्। ५. ह. क. च. सूराः। ६. ग. विधेपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org