________________
भर्तृहरिकृत-शतकत्रयम्
[२. ८-१०] अथ स्त्रीणां मोहाधिक्यमाहस्मितेन भावेन च लज्जया धिया पराङ्मुखैरर्धकटाक्षवीक्षितैः। वचोभिरीयाकलहेन लीलया समस्तभोवैः खलु बन्धनं स्त्रियः॥८॥
स्त्रियो नार्यः । खलु निश्चितम् । समस्तभावैः सकलप्रकारैः बंधनं वर्तन्ते । कैः कैः प्रकारैः ? । स्मितेन हास्येन । च अन्यत् । भावेन चित्ताभिप्रायेण, लञ्जया ब्रीडया, धिया बुद्धया । परामुखैः विपरीतवदनैः अर्धकटाक्षवीक्षितैः । पुनः कैः ? । वचोभिः । पुनः केन ? । ईर्ष्याकलहेन । पुनः कया ? । लीलया । एतैः प्रकारैः स्त्रियः पुरुषाणां बन्धनमेव ॥ ८ ॥
अथ तासामेवाधिक्यमाह कविःएताश चलद्वलयसंहतिमेखलोत्थ___ झंकारनूपुररंवाहृतराजहंस्यः। कुर्वन्ति कस्य न मनो विवशं तरुण्यो
विति॒स्तमुग्धहरिणीसदृशाक्षिपातैः ॥ ९॥ एताः तरुण्यः इमा युवत्यः कस्य मनो विवशं विह्वलं न कुर्वन्ति ? अपि त्वखिलजगतः । कैः। वित्रस्तमुग्धहरिणीसदृशाक्षिपातैः । वित्रस्ता चासौ मुग्धा वित्रस्तमुग्धा, वित्रस्तमुग्धा या हरिणी तत्सदृशा ये अक्षिपाताः वित्रस्तमुग्धहरिणीसदृशाक्षिपाताः, तैः । चपलकटाक्षपातैरित्यर्थः । किं० तरुण्यः ? । चलद्वलयसंहतिमेखलोत्थझंकारनूपुररवाहृतराजहंस्यः । चलन्तो ये वलयाः (क. ट. कङ्कणाः) चलद्वलयास्तेषां संहतिः श्रेणिः, चलद्वलयसंहतिश्च मेखलोत्थझंकाराश्च नूपुररवास्तैः । आ समन्तात् भावेन हृता राजहंस्यो याभिः, ताः चलठ्ठलयसंहतिमेखलोत्थझंकारनूपुररवाहृतराजहंस्यः । एतावता सलावण्यनारीणां रूपं दृष्ट्वा कस्य मनो विह्वलं न भवतीत्यागमः ॥ ९॥
अथ नारीभ्यः सुखदुःख[ स्वरूप ]माह कविःसत्यं जना वच्मि न पक्षपाताल लोकेषु सप्तस्वपि तथ्यमेतत् । नान्यन् मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्नहि कश्चिदन्यः ॥१०॥ __ हे जनाः लोकाः! सत्यं वच्मि अवितथं कथयामि । न पक्षपाताद् वच्मि । यत्तु सप्तस्वपि लोकेषु एतत्तथ्यं ( क. च. तथ्यं)। तत् किम् ? । नितम्बिनीभ्यो युवतीभ्योऽन्यन्मनोहारि किमपि न । अन्यत् [अन्यः] कश्चित् (ख. ट. किंचित् ) नितम्बिनीमन्तरेण दुःखैकहेतुर्नहि नास्त्येव ॥ १० ॥ ! .. १. ख. रीऑ । २. ख. "भावे । ३. ख. ग. घ. हंसाः ; ज. हंसः। ४. ख. चित्रस्थ०; घ. चित्रस्य । ५. हं. क. च. यत्सप्तस्वपि; ज. सर्वेषुच । ६. ख. घ. किंचिदन्यत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org