________________
[२. ११-१२]
नीतिशतकम् तासामेव स्वरूपमाह कविःलीलावतीनां सहजा विलासास् त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धेस् तत्र भ्रमत्येव मुधा षडद्धिः ॥ ११ ॥
लीलावतीनां ललनानां विलासाः सहजाः स्वभावजाता वर्तन्ते । परं मृढस्य हृदि त एव स्फुरन्ति । कोऽर्थः ? । मूढजनश्चेतसीदं विचिन्तयति- इयं प्रमदा मां दृष्ट्वा दृष्ट्वा हावभावविभ्रमविलासान् कुरुते । तन्मुधैव । यतः प्रोक्तं नाममालायाम् (ख. ट. हेमाचार्यैः )।
“मोट्टायितं कुट्टमितं ललितं गर्हितं तथा।
विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥" इति रहस्यम् । अमुमेवार्थ कविदृष्टान्तेन मूढजनमवबोधयति-नलिन्याः रक्तकमलिन्या रागो निसर्गसिद्धो वर्तते स्वभावोत्पन्नो वर्तते । षडर्भिमरः । तत्र कमलिन्यां मुधा (छ. ट. मुग्धा ) भ्रमति ॥ ११ ॥
सिद्धाध्यासितकन्दरे हरवृषस्कन्धावगाढद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिति स्थेयसि । कः कुर्वीत शिरःप्रणाममलिनं मानं मनस्वी जनो
यद्युत्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्र स्त्रियः॥१२॥ यदि चेत् स्त्रियो न स्युः । यत्तदोर्नित्यसंबन्धः । इति ज्ञायात् । तदा को मनखी जनः खकीय मानं शिरः प्रणाममलिनं कुर्वीत ? । अपि तु न कोऽपि । किं० स्त्रियः ? । उनस्तकुरङ्गशावनयनाः। उत्रस्तो योऽसौ कुरङ्गः तस्य शाववद् बालकवन् नयने यासां ता उत्रस्तकुरङ्गशावनयनाः। पुनः किं० स्त्रियः ? । स्मरास्त्र कामास्त्रम् । आविष्टपुल्लिङ्गः (हं. क. छ. 'पुल्लिङ्ग) एवंविधा नार्यश् चेन्न स्युः तदा मानं कश्चिदपि नोज्झिष्यत ( नौज्झिष्यत्)। क सति । हिमवतो हिमाचलस्य पर्वतस्य स्थाने स्थिति (छ. स्थितं) स्थेयसि निश्चले सति । किं० हिमवतः स्थाने ? । गङ्गाधौतशिलातले गङ्गया भागीरथ्या धौतं प्रक्षालितं शिलातलं यस्य स० तस्मिन् । पुनः किं० हिमवतः स्थाने ? । हरवृषस्कन्धावगाढद्रुमे । हरस्येश्वरस्य वृषो बलीवर्दः हरवृषः (हं. च. हरिवृषः ), तस्य स्कन्धेन अवगाढा घर्षिता द्रुमा वृक्षा यत्र स हरवृ० तस्मिन् । [पुनः किंभूते हिमवतः स्थाने ? सिद्धाध्यासितकन्दरे सिद्धैरध्यासिता कन्दरा यस्य स तस्मिन् । ] चेद्धिमवतो निरञ्जनानि शृङ्गाणि आत्मार्थसाधकानि वर्तन्ते, तदा परसेवां कः कुर्वीत ? | चेन्नार्यों न भवन्ति ॥ १२ ॥
मनस्विना एकावस्थोपदेशमाह कविःदिर्श वनहरिणीभ्यो वंशकाण्डस्थलीनां
कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ।। १. क. च. स्मरंति। २ च. सिद्धिस् । ३. ग. भ्रमत्येष। ४ ग. हरिवृष। ५. ख. घ. स्थिते । ६. ख. दिनवन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org