________________
भर्तृहरिकृत-शतकत्रयम्
[२. १३-१५] शुकयुवतिकपोलापाण्डु ताम्बूलवल्ली
दलमरुणनखात्रैः पाटितं वा वधूभ्यः ॥ १३ ॥ हे मनस्विन् ! वधूभ्यः सुन्दरीभ्यः नागवल्लीदलं ताम्बूलनागवल्लीदलं; (ट. ताम्बूलवल्लीदलं) वीटकं दिश वितर । वा अथवा वनहरिणीभ्यः वनमृगीभ्यः कुशानां दर्भाणां केवलं दिश देहि । किं० नागवल्लीदलम् ? । अरुणनखाग्रेः पाटितं विदारितं विनशीकृतम् । पुनरपि किं विशिष्टं नागवल्लीदलम् ? । शुकयुवतिकपोलापाण्डु । शुकयुवती शुकी [तस्याः ] कपोलवत् आ समन्ताद् भावेन पाण्डु गौरवर्णम् । "पुंवद्भाषितपुंस्कानूङ पूरण्यादिषु स्त्रियाम् ।" तुल्याधिकरणे युवतीस्थाने युवति । कवलं कासां ? वंशकाण्डस्थलीनां वंशानां काण्डस्थली वंशकाण्डस्थली, [तेषां ] वंशपल्लवानां कवलमित्यर्थः । किं० कवलम् ? । उपलकोटिच्छिन्नमूलम् । उपलः प्रस्तरस्तस्य कोटिः अग्रविभागः तया छिन्नं मूलं यस्य स उपलकोटिच्छिन्नमूलस्तम् , उप० ॥ १३ ॥
अथ विषयरसविशेषाधिक्यमाहअसाराः सन्त्येते विरतिविरसों ये च विषया
जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति । तथाप्यन्तस्तत्त्वप्रणिहितधियामप्यतिबल
स्तदीयोऽनाख्येयः स्फुरति हृदये कोऽपि महिमा ॥ १४ ॥ च अन्यत् । ये ( क. के ख. ट. एते) विषयास्ते पण्डितैः । यद्वा अथवा इति जुगुप्सन्तां तिरस्क्रियन्ताम् । इतीति किम् ? । ननु निश्चितम् । विषयाः सकलदोषास्पदम् । पुनः इतीति किम् ? । एते विषया विरतिविरसाः सन्तः असाराः सन्ति । तथापि एवं सत्यपि । अन्तस्तत्वप्रणिहितधियां अपि महात्मनामपि विदुषामपि । तदीयो महिमा तस्य विषयस्य महिमा । हृदये कोऽपि अपूर्व इव स्फुरति । किं० महिमा ? । अनाख्येयः वक्तुमशक्यः । अन्तर्गतत्वेन प्रणिहिता सत्यीकृता स्थापिता धीर्बुद्धिर्येषां ते अन्तस्तत्त्वप्रणिहितधियः, तेषामपि कामरसव्याप्ती सत्यां तत्त्वं तदेव जागर्ति । न तु शास्त्रादिको रसः ॥ १४ ॥
अथ मनसो रुचिस्वरूपमाह कविःभवन्तो वेदान्तप्रणिहितधियामत्र गुरवो
विचित्रालापानां वयमपि कवीनामनुचराः । तथाप्येतद् ब्रूमो न हि परहितात् पुण्यमधिकं
न चास्मिन् संसारे कुवलयदृशो रम्यमपरम् ॥ १५ ॥ १ग, सन्त्वेते। २ ग. विरसायास; घ. विरसाश्चापि। ३. घ. जुगुप्सन्तं । ४. ग.' शकल०। ५. ख. घ. मपि। ६ ग. च. बलं तदी. ७. ग. कोप्यमहिमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org