________________
[२. १६-१८]
नीतिशतकम् __ हे पूज्याः ! भवन्तोत्र संसारे वेदान्ततत्त्वप्रणिहितधियां वेदरहस्यनिश्चलबुद्धीनां गुरवो वर्तन्ते । वयमपि कवीनामनुचरा वर्तामहे । किं० कवीनाम् ? । [विचित्रालापानाम् ।] विचित्रो आलापो येषां ते विचित्रालापाः, तेषां वि० । तथापि एवं सत्यपि । किमपि वयमपि एतद् ब्रूमः । किम् ? । न हि परहितात् अधिकं पुण्यं नास्ति । असिन् संसारे कुवलयदृशः नार्याः अपरं न च रम्यं न किमपि सुन्दरम् ॥ १५॥
अथ पृच्छां चिकीर्षुराह कविःमात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्याः नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥१६॥
हे आर्याः हे पण्डिताः ! । इदं समर्यादं वाक्यं वदन्तु । भोः किं कृत्वा ।। मात्सर्यमुत्सार्य परिहृत्य । अपि च कार्य विचार्य । तत् किम् ? । किमु भूधराणां पर्वतानां नितम्बाः उत स्मरस्मेरविलासिनीनां सुन्दरीणां नितम्बाः सेव्याः ? । तत्सत्यावहं मम पुरस्तानिवेदयन्तु (ख. ट. अस्मत्पुरुषानिवेदयन्तु)॥ १६ ॥
अथ मनसो रुचिः प्राह कविःकिमिह बहुभिरुक्तैर्वस्तुशून्यैः प्रलापर्
द्वैयमपि पुरुषाणां सर्वदा सेवनीयम् । अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ १७ ॥ हे तत्त्वार्थिनः ! इह अस्मिन्नर्थे बहुभिरुक्तैः किम् ? किंलक्षणैर्बहुभिरुक्तैः ।। वस्तुशून्यैर्युक्तिशून्यैः [पुनः किंलक्षणैरुक्तैः ? । प्रलापैः अनर्थकवचोभिः ] । पुरुषाणां धर्मार्थकामयुक्तानां सर्वदा सर्वकालं द्वयमपि सेवनीयं द्वयोरपि परिशीलनं कर्तव्यम् । सुन्दरीणां रमणीनां यौवनं वा, वनं वा । किं० यौवनम् ? । अमिनवमदलीलालालसं अभिनवा मदलीला अभिनवमदलीला, तामिालसम् । पुनः किं० यौवनम् ? । स्तनभरपरिखिन स्तनभरेण परिखिन्नं स्तनभरपरिखिन्नम् ॥ १७ ॥
अथ जितेन्द्रियस्वरूपमाह कविःबाले लीलामुकुलितममी मन्थरा दृष्टिपाताः __किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते । संप्रत्येते वयमैपरतं बाल्यमास्था वनान्ते
क्षीणो मोदस्तृणमिव जगज्जालमालोकयामः ॥१८॥ १. ग. अर्थ', ख. घ. युक्ति। २ ग. द्वयमिह । ३ ख. घ. उपरतं; च. अपि रतं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org