________________
भर्तृहरिकृत - शतकत्रयम्
[ २.१९-२०
हे बाले ! अभी मन्थराः दृष्टिपाताः लीलामुकुलितं यथा भवति किं क्षिप्यन्ते किं प्रेर्यन्ते । विरम विरम । एष ते तव श्रमः व्यर्थो मुधैव । संप्रति एते वयं जगज्जालं तृणमिव आलोकयामो विलोकयामः । कथम् ? । बाल्यं अपरतं विरमितं (ख. ट. उपरतं विरतं ) । आस्था वनान्ते । मोहः क्षीणः । अस्माकमीदृशं स्वरूपं वर्तते । संप्रति वयमीदृशाः स्मः ॥ १८ ॥
अथ कामिनः कामतत्त्वमाह
ટ
मत्तेभकुम्भपरिणाहिनि कुङ्कुमद्रे कान्तापयोधरतटे रतिखेदखिन्नः ।
वक्षो निधाय भुजपञ्जरमध्यवर्ती
धन्यः क्षिप क्षिपयति क्षणलब्धनिद्रः ॥ १९ ॥
धन्यः प्राणी एवंविधां क्षिपां रजनीं क्षिपयति निर्गमयति । किं कृत्वा ? । वक्षो हृदयं पिधाय (च. ट. विधाय ) आच्छाद्य । कथंभूतः सन् ? । भुजपञ्जरमध्यवर्ती सन् । किं० धन्यः ? | कान्तापयोधरतटे रति ( हं. रत० ) खेदखिन्नः । किं० कान्तापयोधरतटे ? । मत्तेभकुम्भपरिणाहिनि । मत्तेभकुम्भवत् परिणाहो विस्तारो विद्यते यस्य स तस्मिन् । पुनः किं०धन्यः ? | क्षणलब्धनिद्रः क्षणमात्रं लब्धा निद्रा येन स क्षणलब्धनिद्रः ॥ १९ ॥ अथ कश्चित्पुमान् कांचिन्नायिकां प्रत्याहअनाघ्रातं पुष्पं किशलयमलूनं कररुहैर्
अनाविद्धं रत्नं निर्धुवनमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव भवद्रूपमनघं
न जाने भोक्तारं क इह समुपस्थास्यत इति ॥ २० ॥
हे भद्रे ! अन भवद्रूपं प्रति अरमत्यर्थं भोक्ता इति अमुना प्रकारेण क इह अस्मिन् रूपे समुपस्थास्यते । तदहं न जाने । किं० भवद्रूपम् । अनाघ्रातं पुष्पमिव कररुनं नखाग्रैरचुण्टितं किशलयमिव । उत्प्रेक्षते - अनाविद्धं अनुत्कीलितं ( हं. रितं ) रत्नमिव । अनास्वादितरसं ( हं. निधुवनमिव अभुक्तं सुरतमिव शुद्धपाठः ) निधुवनमिव हारहूरमिव । पुनः किं० भवद्रूपम् ? | पुण्यानामखण्डं अक्षतं फलमिव । एतावता नाहं जाने तव पतिं कं विधास्यति भगवान् ॥ २० ॥
अथ दुर्भगसेवकमाश्रित्य कान्तास्वरूपमाह -
राजंस्तृष्णाम्बुराशेर्नहि जगति गतः कश्चिदेवावसानं
को वाप्यः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागः ।
१ क. च. छ. ज. माद्रे । २ हं. धन्याः ।
५ हैं. पुष्कं । ६ ख. मधुवनम ।
Jain Education International
३ क. घ. क्षपां । ४ ग. घ. क्षपयति ।
For Private & Personal Use Only
www.jainelibrary.org