SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ [१.३-५] नीतिशतकम् प्रसह्य मणिमुद्धरेन् मकरवक्त्रदंष्ट्राङ्कुरात् समुद्रमपि संतरेत् प्रचलदुर्मिमालाकुलम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद् धारयेन् • न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ३ ॥ प्राणी मकरवऋदंष्ट्राङ्करात् प्रसह्य बलात्कारं कृत्वा मणिम् उद्धरेत् मुक्तामणिं गृह्णाति । मकरस्य वक्र मकरवत्रं, मकरवस्य दंष्ट्रा मकरवक्रदंष्ट्रा, तासामङ्कुरो मकर वक्रदंष्ट्राङ्कुरः, तस्मात् समर्थः । प्राणी समुद्रमपि संतरेत् पारं गच्छेत् । किं० समुद्रम् ? । प्रचलदूर्मिमालाकुलम् । प्रचलन्तो ये (न्त्यो या) ऊर्मयः कल्लोलास्तेषां माला श्रेणिः प्रचलदूर्मिमालाः, ताभिराकुलः संकुलः प्रचलदुर्मिमालाकुलः, तम् । तथा विद्यावान् प्राणी भुजङ्गमपि फणिनमपि [ कोपितं कोपयुक्तं] पुष्पवत शिरसि मस्तके धारयेत् । तु पुनः। प्रतिनिविष्टमूर्खजनचित्तं न आराधयेत् न प्रतिबोधयेत् । प्रतिनिविष्टः समीपोपविष्टो योऽसौ मूर्खजनः तस्य यत् चित्तं प्रतिनिविष्टमूर्खजनचित्तम्, तत् । पृथ्वीगुरुच्छन्दः-'जसौ जसजला वसुग्रहयतिश्च पृथ्वी गुरुः।' समाधि - विषमालंकारौ ॥३॥ लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शंशविषाणमासादयेत्, न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥ विज्ञानी यान्त्रिकः पुमान् सिकतासु वालुकासु यत्नतः पीडयन् पीलनं कुर्वन् सन् तैलं लमेत स्नेहं प्राप्नुवीत । च अन्यत् । पिपासादितः प्राणी तृषापीडितो जनो मृगतृष्णकासु झञ्झावातेभ्यः सलिलं पिबेत् पानीयमाचमेत् । अपि पुनः । कदाचित् कस्मिंश्चिदपि प्रस्तावे पर्यटन परिभ्रमणं कुर्वन् प्राणी शशि(श)कविषाणं शशि(श)कशृङ्गं आसादयेत् प्रामुयात् । तु पुनः । प्रतिनिविष्टमूर्खजनचित्तं नाराधयेत् समीपोपविष्टमूढप्राणिमानसं न प्रतिबोधयेत् । पूर्वोक्तं छन्दः अलंकारौ च ॥ ४ ॥ शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं खाकृतेः। प्रभुधनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ ५॥ मे मम मनसि सत शल्यानि वर्तन्ते । कानि कानि शल्यानि । शशी चन्द्रः दिवसधूसरो चतते । दिवसे धूसरः दिवसधूसरः । एकं शल्यमिदमेव । कामिनी नायिका गलितयौवना १ क. ग. च. छ. शशिविषाणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy