________________
भर्तृहरिकृत-शतकत्रयम्
[१.२] संजाते जगति का वृद्धिर्भवित्री ? स एवाजरामरः संजातो रुचिरो येन जगज्जीवति । तज्जगज्जीवनं राजानमन्तरेण न बोभोति ।" तद्विचिन्त्येहागत्य त्वत्पुरस्ताड् ढौकितमिदं फलम् ।" राजाऽप्यजरामरफलस्य महिमानमवगम्य प्रहर्षाञ्चितस्तस्मै विप्राय पारितोषिकं ददौ । स्वमनसि चिन्तितं च-"अहो मयि जीवति ममापि कश्चिद् वल्लभो जनो मरति तदाहं दुःखभाग् जीवामि । मम पट्टमहादेवी राज्ञी प्राणतोऽपि प्रिया वर्तते । तस्यै यच्छामि"-व्यचिन्त्येति तदा दासिकाहस्ते सौधान्तः प्रहित्य राश्यै प्रदत्तम् । तथापि निजमानसे मानसितम्-"अहो ममापि वल्लभः । कोऽपि म्रियते तदाहं कथं करोमि ।" तयापि पोन्तारस्य प्रदत्तम् । तस्यापि वल्लभा दासिका वर्तते । तस्यै दत्तम् । तयापि चेतसि चिन्तितम्-"अहो मयि दुःखजीविन्यां जीवन्त्यां के समुद्धारा भविष्यन्ति ।" ज्ञात्वेति तया पुनः राज्ञे तत्फलं प्रदत्तम् । राज्ञापि तत्फलं विलोक्य विलोक्य दासीसमीपे पृष्टम् । “तुभ्यं केन दत्तमिदम् ?।" अत्याग्रहेण भाष्य पृष्टा, सत्यं तया बभाषे-“मह्यं पोन्तारेण दत्तम् ।” सोऽपि तथैव पृष्टो बभाषे-"मह्यं राश्या दत्तम् ।” तं परमार्थ मत्वा निर्वेदमानसो जातः । अन्तःपुरान्तः समेत्य राज्ञीसमीपं तत्फलं ययाचे । तया मुन्मनालापपुरःसरं राजा बभाषे-“हे स्वामिन् ! मया भक्षितम्।" सदाकातितमां वैराग्यरङ्गतरङ्गितचित्तो बभूव । उक्तं च-अहो संसारस्य दुर्विलसितम् ।
यां अहं सततं निरन्तरं वल्लभां प्राणप्रियां चेतसि चिन्तयामि गणयामि सा मयि विषये विरका सती अन्यं जनं इच्छति पोन्तारं वाञ्छति । स पोन्तारोन्यासक्तो वर्तते, दासीरतो वर्तते च । काचिद् अन्या या नायिका अपरा नितम्बिनी अस्मत्कृते परिशुष्यति मनोरथैरस्माकं पान्छति । तस्मात् धिक् तां च तं च मदनं च इमां च मां च । कोऽर्थः ? । पूर्व तां मद्वल्लभा धिक् । रे दुराशये ! मम सदृशं भूपतिं भर्तारं लब्ध्वा मेण्ठे किमनुरक्ता ? । तं मेण्ठं धिक् । रे मूढात्मन् ! पट्टमहादेवी मां विहाय त्वयि रागं विधत्ते । तदुपरि त्वं किं विरक्तः।। च अन्यत्मदनं धिक् यो निरर्थकं त्रिभुवनं विडम्बयति विगोपयति । च अन्यत्- इमां दासी धिक् । या तादृशं प्रेमपरायणं मेण्ठं पतिं प्राप्य तदुपरि विरक्ता ।।
वसन्ततिलका छन्दः-'उक्ता वसन्ततिलका तभजा जगौ गः ।' उपशमालंकारः ॥ १ ॥
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ २ ॥
न जानातीत्यज्ञः । अज्ञो मूर्खः सुखं आराध्यो भवति सुखेनाराध्यः स्यात् । सुखेन प्रतिबोध्यत इत्यर्थः । विशेषज्ञो विद्वान् सुस्तरमाराध्यते अवबोध्यते । अत्यन्तं सुखेन सुखतरम् । “प्रकृष्टे तरतमौ" तरप्रत्ययः । ज्ञानलवदुर्विदग्धं नरं ब्रह्मापि न रञ्जयति नावबोधयति । कोऽर्थः । ज्ञानस्य लवः ज्ञानलयः, ज्ञानलवेन ज्ञानलेशेन खण्डखण्डपाण्डित्येन दुर्विदग्धं कदाग्रहग्रहप्रस्तं विश्वस्रष्टापि प्रतिबोधयितुं न शक्नोतीत्यर्थः। ... : गाथा पथ्या छन्दः । यतः प्रोक्तम्-'त्रिष्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याः । पथ्येति' माम तस्याश्छन्दोविद्भिः समाख्यातम् ॥' विषमालंकारः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org