________________
पण्डितवर - धनसारगणि-विरचितव्याख्यायुक्तं
महाकवि-भर्तृहरि - कृतं नीति-शृङ्गार -वैराग्यात्मकं शतकत्रयम्।
अथ प्रथमं नीतिशतकम् ।
॥ ॐ नमः सर्वज्ञाय ॥ युगादिदेवोऽप्ययुगादिदेवः पुरा द्वितीयोऽपि सदाऽद्वितीयः । यः पश्चशाखोऽपि सहस्रशाखः सोमङ्गलो मङ्गलमातनोतु ॥१॥
सर्वातिशयसंयुक्तं पश्चाचारपरायणम् । श्रीवीरं गरिमाधीरमभिवन्दे महात्मभिः॥२॥ नत्वाऽर्हन्तं गुरुं देवीं शारदां कविसारदाम् ।
श्रीमद्-भर्तृहरवृत्तव्याख्यां विरचयाम्यहम् ॥ ३॥ तत्रेष्टदेवताप्रणिधानसमाधानविधानपूर्वमभीष्टदेवतासंस्मरणं विधाय भूपति भर्तृहर विरचितनीति-शृशा स्वैरा म्य-भावभावितकठिनकवित्वार्थसंसूत्रेण किमप्युदाहरणविवरणप्रपञ्चं देव-गुरुभारती-प्रसादान्निवेदयिष्यामि । तद्यथा
यां चिन्तयामि सततं मयि सा विरक्ता
साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः। अस्मत्कृते च परिशुष्यति काचिदन्या
धिक् तां च तं च मदनं च इमां च मां च ॥ १ ॥ [अत्र पद्यविषये कथा यथा-] पुरा कदाचिदुज्जयिन्यां नगर्या भर्तृहरभूपती राजमण्डलीसंसेव्यमानः सभासमासीनः समासीत् । तत्र विप्रैकः । करकलितविमलफल आजगाम । तेन तत्फलमुपढौकनिकामासूच्याशीर्वचो ददे । राज्ञा पृष्टः स-“भो विप्र! कुतः समानीतं फलमिदम् । केन दत्तम् । किं वा केनाप्यदृष्टपूर्वाणि फलानि ।” सोऽप्यूचे-" राजेन्द्र ! फलानि बहून्यपि सन्ति पर नैतादृशानि । यत एतदमृतफलम् ।" ततश्च राज्ञा बभाषे–“विप्र! कुतो लब्धं त्वया ?" "रान् ! मया देवतैका समाराधि, तयैकविंशदिनानन्तरं तुष्टया फलमेतत् प्रदाय मम पुरस्तात् मोकमिति-'भो द्विज ! फलमेनं भक्षयित्वाऽजरामरो भव'-तदनु मया व्यचिन्ति च । मय्यजतमरे
११. गुरुनागारं महात्मानं नमाम्यहम् । २ टे. 'हरेाख्यां शुद्धां विरचयास्यहम् ।
Gyaa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org