Book Title: Bhartuhari Shataka Trayam Author(s): Bhartuhari, Dharmanand Kosambi Publisher: ZZZ UnknownPage 97
________________ भर्तृहरिकृत-शतकत्रयम् [२.५६-५८] ये कुधियः ये कुबुद्धयः मकरध्वजस्य राज्ञः परमां प्रकृष्टां स्त्रीमुद्रां विहाय परित्यज्य । स्वर्गादिलोभेच्छया यान्ति व्रजन्ति । किं० स्त्रीमुद्राम् ? । सर्वार्थसंपत्करी कीम् । किं० ? । ते मूढाः मूर्खाः । ते कुधियः । तेनैव कन्दर्पण नग्नीकृताः मुण्डिताः । केचित् पञ्चशिखीकृताः पञ्चशिखतापसीकृताः । चान्यत् जटिलाः जटाधारिणः । चान्यत् अपरे कापालिकाः भरट्टकाः [हं. भट्टारकाः ] । कृत्वा कृत्वा विगोपिताः। किं कृत्वा ? । निर्दयतरं निहत्य कुट्टयित्वा ॥ ५५ ॥ पुनस्तदेवाहविस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशमन भवाम्बुराशौ। येनाविशत्तदधरामिषलोलमर्त्यमत्स्यान्विकृष्य स पचत्यनुरागवह्नौ ॥५६॥ मकरकेतनधीवरेण अत्र अस्मिन् भवाम्बुराशौ संसारसमुद्रे स्त्रीसंज्ञितं [स्त्री] नामाभिधानं बडिशं मत्स्यबंधनं विस्तारितम् । येन कारणेन (क. छ. उच्चरत् ) तदधरामिषलोलमर्त्यमत्यान् विकृष्य जलात् निष्कास्य अनुरागवह्नौ (ख.+स.) पचति संस्कारं करोति ॥ ५६ ॥ अङ्गनानां कृत्यमाह- . उन्मत्तप्रेमसंरम्भादारम्भन्ते यदङ्गनाः । तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः॥ ५७ ॥ अङ्गना नार्यो यदारम्भन्ते । कस्मात् ? । उन्मत्तप्रेमसंरम्भात् । उन्मत्तश्चासौ प्रेमः [मा ] उन्मत्तप्रेमः [ मा ] तस्य संरम्भः उन्मत्तप्रेमसंरम्भस्तस्मात् उन्मत्तप्रेमसंरम्भात् । तत्र प्रत्यूहमाधातुं विघ्नं कर्तुम् । खलु निश्चितम् । ब्रह्मापि कातरः कर्तुमशक्तः । एतावता यदङ्गनाभिर्भवति तत्ताभिरेव नापरेण ॥ ५७ ॥ मृगीदृशां प्रेमस्वरूपमाह- . प्रणयमधुरप्रेमोद्गारा रेसादलसास्तथा भणितमधुरा मुग्धप्रायाः प्रकाशितसमदाः। प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ ५८ ।। मृगीदृशां नायिकानां स्वैरालापाः रहसि एकान्ते किमपि हरन्ति तद्वक्तुं न शक्यते । किं० स्वैरालापाः ? । प्रणयमधुरप्रेमोद्गाराः प्रणयेन स्नेहेन मधुराः प्रणयमधुराः एवंविधाः प्रेमोद्गाराः । पुनः कथंभूताः स्वैरालापाः ? । रसात् कामरसात् अलसाः मन्थराः । पुनः किं० १ क. (शोधनादनन्तरं) छ. येनोच्चरत्त; ख. घ. येनाचिरात्त । २ ग. छ. आरभंते) घ. आरंमेते । ३ घ. दैवोपि । घ. पद्यं नास्ति । ४ ख. ज. मधुराः। ५ग. रसातलस्तथा । ६ ग. मुग्धाप्रायाः। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188