Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 111
________________ ७६ [ २. ९५-९७ ] किं० ? | सौधोत्सङ्गः धवलगृहाङ्कम् । किं० सौधोत्सङ्गः ? | शुचिः पवित्रः । पुनः किं० १ । प्रतनु वसनं स्वच्छवस्त्रम् । पुनः किं० ? । पङ्कजदृशः कमलदलवद्दीर्घनयना नार्यः । उष्णकाले सुकृतिनो लभन्ते ॥ ९४ ॥ एतदनन्तरं छ. कोशे 'आसारेण न हर्म्यतः' इत्यादिश्लोको दृश्यते । ] अथ सौख्योत्पादक प्रदेशानाह भर्तृहरिकृत - - शतकत्रयम् वियदुपरिसमेघं भूमयः कन्दलिन्यो नवकुटजकदम्बामोदिनो गन्धवाहाः । शिखिकुलकलके कारावरम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ९५ ॥ एते पदार्थाः सुखिनं वा असुखिनं सर्वमुत्कण्ठयन्ति मनीषामुत्पादयन्ति । किं किम् ? । वियदाकाशम् उपरिसमेघं उन्नतजीमूतम् । पुनः किं० ? । भूमयः कन्द लिन्यः कन्दाङ्कुरिताः । पुनः किं० ? | गन्धवाहाः नवकुटजकदम्बामोदिनः नवानां नवीनानां कुटजकदम्बानां आमोदयितुं विकाशयितुं शीलं येषां ते नवकुटजकदम्बा मोदिनः । पुनः किं० ? । वनान्ताः शिखिकुलकलकेकारावरम्याः शिखिनां कुलानि शिखिकुलानि तेषां कलकेकाः (च. शिखिकुलानि च कलकेकिनश्च ) शिखिकुलकलकेकाः तेषां ( तासां ) रावेण शब्देन रम्या ये वनान्ताः [ ते ] शिखिकुलकलकेकारावरम्याः । एते प्रकाराः सौख्योत्पादकाः ॥ ९५ ॥ तरुणीवेषा दीपितेकामा विकसितजातीपुष्पसुगन्धिः । Jain Education International उन्नतपीनपयोधरभारा प्रवृद्र तनुते कस्य न हर्षम् ॥ ९६ ॥ एवंविधा रामा प्रावृषि वर्षाकाले कस्य पुरुषस्य हर्ष न तनुते न विस्तारयति । किं० रामा ? | तरुणीवेषा । पुनः किं० रामा ? | दीपितकामा दीपितः कामो यस्याः सा । पुनः किं रामा ? | विकसितजातीपुष्पसुगन्धिः विकसिता या जाती विकसितजाती विकसितजातीपुष्पवत् सुगन्धिः विकसित ० । पुनः किं० रामा: । उन्नतपीनपयोधरभारा उन्नतौ च यौ पीनौ उन्नतपीनौ । उन्नतपीनयोः पयोधरयोर्भारो यस्याः सा ॥ ९६ ॥ आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्गयते । जालैः शीकरशीतलाश्च मरुतो रैत्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ ९७ ॥ १ ग. भेषा; ज. रेषा । २ क. दीप्ति । ३ ग सुगन्धी । ४ ख. घ. प्रावृषि ! ५ क. छ. दृशो; ख. घ. दृशां । ६ ग. ममा लिङ्ग्यते । ७ क. छ. ह्यत्यन्त ; ख. घ. चात्यन्त'; ग. व्यत्यन्त । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188