________________
७६
[ २. ९५-९७ ]
किं० ? | सौधोत्सङ्गः धवलगृहाङ्कम् । किं० सौधोत्सङ्गः ? | शुचिः पवित्रः । पुनः किं० १ । प्रतनु वसनं स्वच्छवस्त्रम् । पुनः किं० ? । पङ्कजदृशः कमलदलवद्दीर्घनयना नार्यः । उष्णकाले सुकृतिनो लभन्ते ॥ ९४ ॥
एतदनन्तरं छ. कोशे 'आसारेण न हर्म्यतः' इत्यादिश्लोको दृश्यते । ] अथ सौख्योत्पादक प्रदेशानाह
भर्तृहरिकृत -
- शतकत्रयम्
वियदुपरिसमेघं भूमयः कन्दलिन्यो नवकुटजकदम्बामोदिनो गन्धवाहाः । शिखिकुलकलके कारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ९५ ॥
एते पदार्थाः सुखिनं वा असुखिनं सर्वमुत्कण्ठयन्ति मनीषामुत्पादयन्ति । किं किम् ? । वियदाकाशम् उपरिसमेघं उन्नतजीमूतम् । पुनः किं० ? । भूमयः कन्द लिन्यः कन्दाङ्कुरिताः । पुनः किं० ? | गन्धवाहाः नवकुटजकदम्बामोदिनः नवानां नवीनानां कुटजकदम्बानां आमोदयितुं विकाशयितुं शीलं येषां ते नवकुटजकदम्बा मोदिनः । पुनः किं० ? । वनान्ताः शिखिकुलकलकेकारावरम्याः शिखिनां कुलानि शिखिकुलानि तेषां कलकेकाः (च. शिखिकुलानि च कलकेकिनश्च ) शिखिकुलकलकेकाः तेषां ( तासां ) रावेण शब्देन रम्या ये वनान्ताः [ ते ] शिखिकुलकलकेकारावरम्याः । एते प्रकाराः सौख्योत्पादकाः ॥ ९५ ॥
तरुणीवेषा दीपितेकामा विकसितजातीपुष्पसुगन्धिः ।
Jain Education International
उन्नतपीनपयोधरभारा प्रवृद्र तनुते कस्य न हर्षम् ॥ ९६ ॥
एवंविधा रामा प्रावृषि वर्षाकाले कस्य पुरुषस्य हर्ष न तनुते न विस्तारयति । किं० रामा ? | तरुणीवेषा । पुनः किं० रामा ? | दीपितकामा दीपितः कामो यस्याः सा । पुनः किं रामा ? | विकसितजातीपुष्पसुगन्धिः विकसिता या जाती विकसितजाती विकसितजातीपुष्पवत् सुगन्धिः विकसित ० । पुनः किं० रामा: । उन्नतपीनपयोधरभारा उन्नतौ च यौ पीनौ उन्नतपीनौ । उन्नतपीनयोः पयोधरयोर्भारो यस्याः सा ॥ ९६ ॥
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्गयते । जालैः शीकरशीतलाश्च मरुतो रैत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ ९७ ॥
१ ग. भेषा; ज. रेषा । २ क. दीप्ति । ३ ग सुगन्धी । ४ ख. घ. प्रावृषि ! ५ क. छ. दृशो; ख. घ. दृशां । ६ ग. ममा लिङ्ग्यते । ७ क. छ. ह्यत्यन्त ; ख. घ. चात्यन्त'; ग. व्यत्यन्त ।
For Private & Personal Use Only
www.jainelibrary.org