________________
[२.९८-९९]
शृङ्गारशतकम् बतेति हर्षे । धन्यानां पुरुषाणां दुर्दिनं प्रियासंगमे सुदिनतां याति । दुर्दिनं मेघजं तमः । प्रियतमैः आसारेण हर्म्यतः बहिर्यातुं न शक्यते । आसारो वेगवान् वर्षः । आयतदृशो(? शा) नार्यः( ? र्या) शीतोत्कम्पनिमित्तं शीतापगमाय पतिं ( ? तिः) गाढं समालिङ्गयते। चान्यत् । मरुतः (हं. पुरतः) पवन( ? नाः )जालैर्गवा: रत्यन्तखेदच्छिदः । किं० मरुतः ? । शीकरशीतलाः शीकरैर्जलकणैः शीतलाः शीकरशीतलाः ॥ ९७ ॥
अर्ध नीत्वा निशायाः सरभससुरतायाससंश्लेषयोगैः __ प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते । संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं ने पिबति सलिलं शारदं मन्दभाग्यः॥९८॥ मन्दभाग्यः पुमान् शारदं शरत्कालीनं सलिलं पानीयं न पिबति कर्करीतः गर्गर्याः (क. च. छ. गर्गार्याः)। किं० सलिलं ? । संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं संभोगेन क्लान्ता संभोगक्लान्ता एवंविधा या कान्ता [ नारी] तस्याः शिथिलभुजलतया आवर्जितं आनीतं । पुनः किं. सलिलं ? । ज्योत्स्नाभिन्नाच्छधारं ज्योत्स्नया [अ]भिन्ना [पृथग्दृश्या अच्छा निर्मला धारा यस्य तत् ज्योत्स्नाभिन्नाच्छधारम् । किं० मन्दभाग्यः ? । प्रोद्भूतासह्यतृष्णः प्रोद्भूता असह्या सोढुमशक्या तृष्णा येन स प्रोद्भूतासह्यतृष्णः । पुनः किं० मन्दभाग्यः ? । मधुमदनिरतः मधुनो मदः मधुमदः मधुमदेन निरतः मधुमदनिरतः । क ? । विविक्ते निर्जने (हं. निरंजने) हर्म्यपृष्ठे गृहपृष्ठप्रदेशे । किं कृत्वा ? । निशाया अर्धे नीत्वा । कैः ? । सरभससुरतायाससंश्लेषयोगैः सरभसः सोत्सुकः योऽसौ सुरतायासः तत्र ये संश्लेषास्तेषां योगास्तैः सर० ॥ ९८ ॥
प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्विरेफे
काले प्रालेयवातप्रबलविकसितोदाममन्दारदाम्नि । येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोदरक्षा मृगाक्षी
तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥९९॥ तेषां यूनां तरुणानां यामिनी रात्रिः आयामयामा दीर्घप्रहरा सती यमसदनसमा याति । यत्तदोर्नित्यसंबन्धः । येषां जनानां मृगाक्षी क्षणमपि नो कण्ठलना । किं० मृगाक्षी ? । तुहिनक्षोदरक्षा (ख. दक्षा) तुहिनस्य तुषारस्य क्षोदाः तुहिनक्षोदाः तेषां रक्षतीति (ख. °दास्तत्र दक्षा ) तुहिनक्षोदरक्षा । क सति ? । प्रालेयवातप्रबल ( ख. °चल ) विकसितोद्दाममन्दारदाम्नि काले सति। प्रोद्यत्प्रौढप्रियङ्गद्युतिभृति काले सति, प्रोद्यन्तो ये प्रौढप्रियङ्गवः तेषां द्युतिं बिभर्तीति प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृत् । तस्मिन् । पुनः क्व सति ? । विदलत्कुन्दमायद्विरेफे
१ग. सुप्त्वा। २ हं. योत्स्ना। ३ ग. पिबति न । ४ हं. क. च. छ. प्रचल। ५ क. च. छ. नोत्कण्ठ । ६ ग. घ. दक्षा। '७ ग. आयाति यामा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org