SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७८ भर्तृहरिकृत - शतकत्रयम् [२. १०० - १०१ ] काले सति । विदलन्तो ये कुन्दास्तेषु माद्यन्तो द्विरेफाः भ्रमराः यत्र सः विदलत्कुन्दमाद्यद्विरेफस्तस्मिन् ॥ ९९ ॥ पुनस्तदेव हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्रै रतैः वृत्तोरुस्तन कामिनीजनकृताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ १०० ॥ धन्याः पुरुषाः ताम्बूलीदल पूगपूरितमुखाः सुखं यथा भवति शेरते शयनं कुर्वते । ताम्बूलीदलानां पूगाः समूहाः तैः पूरितं मुखं येषां ते । अथ वा ताम्बूलैर्दलैः (ख. 'ल्या दलैः ) अन्यच्च पूगेन पूरितं मुखं येषां ते तथा । क ? | गृहाभ्यन्तरे मन्दिरान्तः । किं० धन्याः ? | वृत्तोरुस्तनकामिनीजनकृताश्लेषाः वृत्तोरुस्तनो यः कामिनीजनः तेन कृत आश्लेषो येषां ते वृत्तोरुस्तनकामिनीजनकृताश्लेषाः । पुनरपि किं० धन्याः ? | हेमन्ते शीतकाले दधिदुग्धसर्पिरशनाः दधिदुग्धस अशनं भोजनं येषां ते दधिदुग्धसर्पिरशनाः । पुनः किं० धन्याः ? । माजिष्ठवासोभृतः माजिष्ठानि वासांसि बिभर्ती (बिभ्रती ) ति मञ्जिष्ठवासोभृतः । पुनः किं० धन्याः ? । काश्मीरद्रवसान्द्रदिग्धवपुषः काश्मीरद्रवेण काश्मीरचन्दनयक्षकर्दमेन सान्द्रं सघनं दिग्धं लिप्तं वपुः शरीरं येषां ते । पुनः किं० धन्याः ? । विचित्रै रतैः खिन्नाः श्रान्ताः ॥ १०० ॥ पुनः शिशिरकालमुद्दिश्य तदेवाह - केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिपन् आतन्वन् पुलकोद्गमं प्रकटयन्नवेगकम्पं गतौ । वारं वारमुदारशीत्कृतमुखो दन्तच्छन्दान् पीडयन् प्रायः शैशिर एष संप्रति मरुत् कान्तासु कान्तायते ॥ १०१ ॥ प्रायः स्वभावेन एष शैशिरो मरुत् संप्रति इदानीं कान्तासु रामासु कान्तायते कान्त व आचरति कान्तायते पतिरिव भाति । मरुत् किं कुर्वन् । कान्तानां केशानाकुलयन् धूनयन् । पुनः किं कुर्वन् मरुत् ? । दृशो मुकुलयन् संकोचयन् । पुनरपि किं कुर्वन् ? । वासः वस्त्रं बलादाक्षिपन् । पुनरपि किं कुर्वन् ? । पुलकोद्गमं रोमोद्गमं ( हं. रोमांचं ) आतन्वन् विस्तारयन् । पुनरपि किं कुर्वन् ? । गतौ गमने आवेगकम्पं प्रक (क. च. छ. प्रग) टयन् । पुनरपि किं कुर्वन् ? । दन्तच्छदानोष्ठान् पीडयन् । किं० मरुत् ? । वारं वारमुदारशीत्कृत - मुखः (हं. 'त्कृतिकृतः ) उदाराः शीत्कृताः शीत्कारा मुखे यस्मात् स उदारशीत्कृतमुखः ॥ १०१ ॥ १ ग. 'दिव्य' । २ ग. पीनोरु° । ३. घ. कोशान् । ४ ग. स्तोकं प्रकम्पं । ५ ख. घ. गते; ग. गतेः । ६ ख. घ. 'शीत्कृतकृतो; ग. 'शीत्कृतिकृतो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy