SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [२. १०२ - १०५ ] पुनस्तदेवाह - चुम्बन्तो गण्डभित्तीरलकवति मुखे शीत्कृतान्यादधाना वैक्षः सूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः । ऊरूनाकम्पयन्तः पृथुजघनतटाच्छ्रंसयन्तोंऽशुकानि व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ १०२ ॥ शृङ्गारशतकम् शैशिरा वाताः शिशिरकालीनाः वाताः पवनाः वान्ति । वाताः किं कुर्वन्तः ? | गल्लभित्तीः कपोलपालीः चुम्बन्तः । पुनः किं कुर्वाणा वाताः ? । मुखे शीत्कृतान्यादधानाः शीत्कारवचनानि बिभ्राणाः । पुनः किं कुर्वन्तो वाताः ? । स्तनभरपुलकोद्भेदमापादयन्तः रोमाञ्चोद्गममुत्पादयन्तः । केषु ? । वक्षःसु । किं० वक्षःसु ? । उत्कञ्चुकेषु उत् ऊर्ध्वं गताः कचुका येषां ते उत्कचुकास्तेषु । पुनरपि किं० वाता: ? । व्यक्तं कान्ताजनानां विटचरितभृतः । पुनः किं० वाता: ? । ऊरून् जंघाप्रदेशानाकम्पयन्तः । वाताः पुनः किं कुर्वन्तः ? । पृथुजघनतटात् अंशुकानि चीवराणि ( हं. वस्त्राणि ) श्रंसयन्तः ( क. छ. संश्रयन्तः स्पर्शयन्तः ) अपनयन्तः ॥ १०२ ॥ ७९ अथ महतामवस्थामाह gha काचिन् महतामवस्था सूक्ष्माणि वस्त्राण्यथ वा च कन्था । कराग्रलग्नाभिनवा च बाला गङ्गातरङ्गेष्वथ वाऽक्षमाला ॥ १०३ ॥ महतां पुरुषाणां काचिदवस्था एकैव । का ? । सूक्ष्माणि वस्त्राणि अथवा कन्था । ' अथवा कराग्रलग्ना अभिनवा यौवनाभिरामा बाला । अथ च नो चेत्तदा गङ्गातरङ्गेषु अक्षमाला जापग्योगस्थिता (हं. त्या ) ॥ १०३ ॥ वैराग्यं संश्रयत्येको नीचो भ्रमति चापरः । शृङ्गारे रमते कश्चिद् दृष्टिभेदः परस्परम् ॥ १०४ ॥ एकः कश्चित् पुमान् वैराग्यं संश्रयति नीरागत्वमाश्रयति । चान्यत् अपरो नीचो भ्रमति । कश्चित् पुमान् श्रृंगारे रमते । कथं ? । यथा भवति परस्परं दृष्टिभेदः ॥ १०४ ॥ यद् यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः ॥ १०५ ॥ Jain Education International १ टीकायां गल्लभित्तीः । २ क. ख. घ. वक्षस्युत्क; हं. क. च. छ. ज. वक्षस्यूत्क' । ३ ख. घ. नीतौ । For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy