Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown
________________
भर्तृहरिकृत - शतकत्रयम्
[ ३. ७२-७४ ]
यत् तु खलानां दुर्जनानां मुखानि वीक्ष्यन्ते विलोक्यन्ते । यत्तदोर्नित्यसंबन्धः । तत् किं कन्दरेभ्यः कन्दाः प्रलयमुपगताः क्षयं जग्मुः । वा अथवा गिरिभ्यः पर्वतेभ्यः निर्झराः प्रलयमुपगताः । वा अथवा वल्कलेभ्यस्तरुभ्यः शाखाः प्रध्वस्ताः विनाशमुपजग्मुः । किं० शाखाः ? । सरसफलभृतः सरसानि फलानि बिभ्रतीति सरसफलभृतः । किं० खलानां ? । प्रसभं यथा भवति ( तथा ) उपगतप्रश्रयाणां प्रोल्लसद्गर्वाणां । किं० मुखानि ? । दुःखोपात्ताल्पवित्तस्मयनशपवनानर्तितभ्रूलतानि दुःखेन उपात्तं उपार्जितं यदपं वित्तं तस्य स्मयवशपवनेन आ समन्ताद्भावेन नर्तिता भ्रूलता यैः तानि दुःखोपात्ताल्पवित्तस्मयवशपवनानर्तितभ्रूलतानि ॥ ७१ ॥ गङ्गातरङ्गकणशीकरशीतलानि विद्याधराध्युषितचारुशिलातलानि ।
२०८
स्थानानि किं हिमवतः प्रलयं गतानि
यत् सावमानपरपिण्डरता मनुष्याः ॥ ७२ ॥
मनुष्याः यत् सावमानपरपिण्डरता वर्तन्ते । तत् किं हिमवतः स्थानानि प्रलयं गतानि । किं० हिमवतः स्थानानि ? । गङ्गातरङ्गकणशीकरशीतलानि गङ्गायास्तरङ्गा गङ्गातरङ्गतः तेषां कणशीकरैः शीतलानि गङ्गातरङ्गकणशीकरशीतलानि । पुनः किं० हिमवतः स्थानानि ? विद्याधराध्युषितचारुशिलातलानि विद्याधरैरध्युषितानि सेवितानि अधिष्ठितानि चारुशिलातलानि येषां तानि । एवंविधानि स्थानानि चेत् न स्युस्तदा परतिरस्कारपिण्डरताः नराः भवेयुः । एतावता परावमानात् तान्येव स्थानानि सेवितानि वरम् ॥ ७२ ॥
यदा मेरुः श्रीमान् निपतति युगान्ताग्निनिहेतः
समुद्राः शुष्यन्ति प्रचुरनिकरग्राहनिलयाः । धरा गच्छत्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ७३ ॥
यदा श्रीमान् मेरुः युगान्ताग्निनिहतो ( हं. 'हितो ) निपतति । समुद्राः शुष्यन्ति ( हूं. पुष्यन्ति ) । किं० समुद्रा: : । प्रचुरनिकरग्राहनिलयाः प्रचुराश्च ते निकराः समूहाः [ ते.. सन्ति येषां तेषां ] ग्राहाणां जलचरजीवानां निलयाः गृहाणि येषु ते प्रचुरनिकरग्राहनिळ्याः । अपि पुनः धरा वसुंधरा अन्तं गच्छति विलयं व्रजति । किं० धरा ? | धरणिधरपादैः धृतापि अवलम्बितापि । तदा शरीरे का वार्ता । किं० शरीरे ? । करिकलभकर्णाग्रचपले करिकलभानां कर्णाग्रवत् चपलं करिकलभकर्णाचपलं तस्मिन् ॥ ७३ ॥
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ७४ ॥
१ ज, सदा । २ छ. 'निहितः ।
Jain Education International
३ घ. छ. धृताः । ४. शंभुवि ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188