Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 165
________________ १३० भर्तृहरिकृत- शतकत्रयम् राज्ये त्यक्ते सति गुणवती नीतिर्न भवति । नीतौ विनष्टायां सत्यां सकलमपि नृपकुलं शुष्येत् शोषं व्रजति । तस्मान्नृपैः पण्डिता माननीया एव, यतो राज्यवृद्धिर्भवतीति वाक्यशेषः ॥ ९५ ॥ अथ राज्ञो नीतिं मालाकार(?रा)चरणेनाह ८. उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वँलघून् वर्धयन् कुब्जान् कण्टकिनो बहिर्निगमयन् विश्लेषयन् संहितान् । अत्युच्चान् नमयञ् शनैरवनतानुन्नामयन् भूतले मालाकार इव प्रपञ्चचतुरो राजा चिरं नन्दति ॥ ९६ ॥ भूतले महीमण्डले राजा चिरं नन्दति समृद्धिं प्राप्नोति । क इव ? | मालाकार इव । मालाकारः किं कुर्वन् ? राजा च किं कुर्वन् ? । शनैः मन्दं मन्दं उत्खातान् उत्पाटितान् वृक्षान् प्रतिरोपयन् प्रतिस्था ( ष्ठा) पयन् नूतनालवाले स्थापयन् । राजापि उत्खातान् नृपान् प्रतिरोपयन् नूतनस्थानाधिष्ठातून कुर्वन् । मालाकारः कुसुमितान् कुसुमानि जातानि येषु ते कुसुमिता[:] । जातार्थे इन् प्रत्ययः । तान् चिन्वन् चुण्टन् । राजाप्येवं कुर्वन् समदान् त्रोटयन् छेदयन् । पुनः किं कुर्वन्नारामिकः ? । लघून् वृक्षान् वर्धयन् । राजापि लघून् नृपान् नरान् वर्धयन् । पुनः कुब्जान् कण्टकिनो [ बहिर्निगमयन् ] बहिर्निष्कासयन् । राजापि कुब्जान् स्तब्धान् कण्टकनरान् बहिर्निगमयन् । पुनः संहितान् मिलितान् विश्लेषयन् पृथक् कुर्वन् । राजापि मिलितान् नृपान् विश्लेषयन् संध्यादिनाऽयुतान् कुर्वन् । तथाप्यु ( १ त्यु ) च्चान् तरून् नमयन् नीचीकुर्वन् । राजाप्यत्युच्चान् नीचीकुर्वन् धनहरणादिना । तथा अवनतान् नम्रान् उन्नामयन् उर्ध्वकुर्वन् । राजापि शनैर्मन्दं मन्दं तान् ऊन्नमयन् प्रौढीकुर्वन् चिरं नन्दति । इति राज्ञो मालाकारसादृश्यम् ॥ ९६ ॥ अथोत्तम एव निजवंशे स्थाप्य एवं निरूपयति ९. दद्यात् साधुर्यदि निजपदे दुर्जनान् यत्र वंशे तन्नाशाय प्रभवति नवो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावकाशोऽधमानां राज्येऽपि स्याद् गृहपतिरिति श्रूयते वाक्यतोऽत्र ॥ ९७ ॥ यत्र वंशे साधुर्यदि निजपदे दुर्जनान् दद्यात् दुर्जनं निजपदे स्थापयेदित्यर्थः । सः नवो दुर्जनो वाञ्छमानोऽपि स्वयं तन्नाशाय प्रभवति वंशनाशाय भवति । तस्मात् कारणाद् विपुलमतिभिर्विशालबुद्धिभिरधमानां नीचानां अवकाशो विकाशः स्थानं प्रसारो न देयः । अत्र संसारे राज्येऽपि गृहपतिरिति श्रूयते । अस्माद् वाक्यतः गृहपतिरपि राज्याधिकारी क्रियते, राज्यवंशेऽपि दुर्जनो न राज्याधिकारी क्रियते ॥ ९७ ॥ १ "सर्वेषां परिपक्कतामुपगतान् (?°मुपयंतां) गृह्णन् फलानी हि (?नीह) सः" पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188